SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ १९ तत्त्वार्थाधिगमटीप्पणम् परिशिष्ट-४ अपारमार्थिकाः तामसाः तिमिरवासिनः मिथ्यादृशः मिथ्यादर्शनाः बहुलसंसाराः स्वतोविराधकाः पशवः अनन्तानुबन्धिनः कुज्ञानिनः असम्यक्त्वाः अविरतयः असंयताः अप्रत्याख्यानाः अन्धाः अबोधयः स्ववञ्चकाः चाण्डाला इत्यनर्थान्तरम् । तत्रै तेष्ववान्तरभेदाः शतशो शतशो भवन्ति। ते ह्यागमसमुद्रतोऽवबोध्या:- “जावइया वयणपहा, तावइया चेव हुन्ति नयवाया। जावइया नयवाया तावइया चेव परसमया।।१।।" इति वचनात् ।। “पयमवि असद्दहन्तो सुत्तुत्तं मिच्छदिट्ठीओ” इत्याचार्यपादाः। सर्वैरप्येभिः प्रागुक्तस्वरूपैरपराजितास्तु जैना आर्हताः स्याद्वादवादिनः निरनन्तानुबन्धिनः स्वल्पसंसाराः परमार्थज्ञाः तत्त्वज्ञाः निःशङ्किता निःकांक्षिताः निर्विचिकित्साः स्वताराधिनः सम्यक्त्विनः सुलोचनाः सुदृशो निस्तमसः प्राप्तरत्नाः भिन्नग्रन्थयो जिनवंश्याः प्रावचनिका इत्यनान्तरम् ।। (पृ.२७७) 48. (षट्त्वं) - षण्णां भावः षट्त्वम् । (अ०१ सू० ३५) (पृ.२९६)
SR No.005749
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorUdayprabhvijay
PublisherVijay Kesharchandrasuri Foundation Girivihar Turst
Publication Year1950
Total Pages462
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy