Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Udayprabhvijay
Publisher: Vijay Kesharchandrasuri Foundation Girivihar Turst

Previous | Next

Page 441
________________ तुलनात्मकटीप्पणी परिशिष्ट-५ जाणेज्जा चउक्कयं निक्खिवे तत्थ ।।१।।” इति, चतुष्टयस्य व्यापितोक्ता सा विरुध्यते, न, अस्य बाहुल्यविषयत्वात्, प्रायः सर्वपदार्थेष्वन्येषु सम्भवात्, इहापि जीवपदार्थज्ञस्तत्र चानुपयुक्त इति द्रव्यजीवोपपत्तेः, तत्तथाभावेन योग्यतालक्षणं तु द्रव्यत्वमधिकृत्य भाष्यकारेणास्य प्रतिषेधः कृत इति, भावजीवमधिकृत्याह - "भावतो जीवा” इति, अनेकवचनोद्देशे बहुवचननिर्देशः एक पुरूषवादनिरासार्थः, तथा चाहुरेके - “पुरूष एवेद" मित्यादि, भावत इति च तृतीयाथै तसिः भावैः सह ये वर्तन्त इत्यर्थः, अत एवाह- “औपशमिके' त्यादिना, औपशमिकादीनां भावानां लक्षणं इत्थं क्रमाभिधाने प्रयोजनं च द्वितीयाध्यायादिसूत्रे वक्ष्यामः “औपशमिकक्षायिको भावा' वित्यत्र (अ.२.सू. १), ततश्चौपमिकादिभावयुक्ताः, इत्यनेन निःस्वभावबीजवादव्यवच्छेदमाह, तथा चाहुरेके - “निःस्वभावा: जीवाः संवृतैः सन्तः” “अकार्याकरणैकस्वभावा” इति चान्ये, “उपयोगलक्षणं' इति साकारानाकारसंविल्लक्षणाः, (श्री हारिभद्रीयटीका पृ.३१) (पृ.९४} 16. द्रव्याणीति बहुवचननिर्देशः पराभिमतं यदेकं विश्वस्यकारणमबादिद्रव्यं, यथाहुरेके-“आप एवेदं खल्विदमग्रे आसी". दिति तद्व्यपोहेन द्रव्यबहुत्वख्यापनार्थं, (श्री हारिभद्रीयटीका पृ.-३३) (पृ.१०३} 17. "चतुर्विधमित्येके' इति चतुर्विधं प्रत्यक्षानुमानोपमानागमभेदेन एके सूरयों मन्यन्ते, कथमित्याह - “नयवादान्तरेण' 'नयावादान्तरेण' यतः केचिन्नेगमादयो नयाश्चतुर्विधमभ्युपयन्ति, अत एवानुयोगद्वारेषु चतुर्विधमुपन्यस्तमिति, एतञ्च यथा अवस्थितं चातुर्विध्यं तथा भाष्यकार एवोत्तरत्र दर्शयिष्यति । (श्री हारिभद्रीयटीका पृ.३६) (पृ.११०} स्वाम्यादिसाधाद्वादौ मतिश्रुतोपन्यासः अत्रापि मतिभेदत्वात् मतिपूर्वकत्वाञ्च श्रुतस्यादौ मतेः, कालविपर्ययादिसाधर्म्याच्च तदन्ववधेः, छद्मस्थविषयादिसाधर्म्याच्च तदनु मन:पर्यायस्य, उत्तमत्वादिभिर्वाऽन्ते केवलस्येत्युपन्यासानुपूर्वीप्रयोजनं, तथा चोक्तं - “जं सामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाई । तब्भावी (वे.विशे.भा.) सेसाणि अ तेणादीए मतिसुआई ।।१।। कालविवजयसामित्तलाहसामण्णओऽवही तत्तो । माणसमेत्तो छउमत्थविसयभावादिसामण्णा ।।२।। अंते केवलमुत्तमजइसामित्तावसाणलाभाओ ।।" (विशे. ८६-८७।।) इत्यादि, (श्री हारिभद्रीयटीका पृ.५७) (पृ.१६१} 19. अक्षीणदर्शनसप्तकावस्थायामपायसद्रव्ययोः क्षीणदर्शनसप्तकावस्थायां चापायरूपस्य सद्व्यस्य तत्परिणतशुभात्मरूपस्य समन्वयात् । एवं श्रुतज्ञानस्याप्यपायांशः प्रमाणयितव्य इति टीकाकृतः। स च पदार्थमहावाक्यार्थानुसन्धानोत्तरभावी महावाक्यार्थपरामर्श एदंपर्यार्थपरामर्शो वेति वयमनुपश्यामः, प्रपञ्चितमेतद् ज्ञानिबन्दौ। (श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ.१९५) (पृ.१६९} अत्र कश्चिदाह-इन्द्रियमनोनिमित्तं विज्ञानं परोक्षमित्येतदागमविरुद्धं भवतः, “इंदिय पञ्चक्खं नोइंदियपञ्चक्खं चे" त्यादि (नन्दी सू.३) वचन प्रामाण्यात्, प्रतीतिविरूद्धं च साक्षाद्रूपादिदर्शनादिति, अत्रोच्यते , नागमविरुद्धं, तत्र व्यवहारतः प्रत्यक्षत्वाभिधानात्, कथमेतत् ज्ञायत इति चेत् नन्वागमादेव, यतस्तत्रैवोक्तं “मतिनाणपरोक्खं च सुअनाणपरोक्खं च” (नन्दी सू.) न च मतिश्रुताभ्यामिन्द्रियमनोनिमित्तमन्यदस्ति यत् प्रत्यक्षमंजसा भवेदिति उपचारतस्तत्र प्रत्यक्षत्वाभिधानं, निश्चयं त्वधिकृत्य प्रवृतोऽयं शास्त्रकार इति नागमविरोधः, प्रतीतिविरोधोऽपि नास्ति, साक्षाद्पादिदर्शनासिद्धेः इन्द्रियादिद्वारेण दर्शनात्, शक्यं चात्र वक्तुं इन्द्रियमनोनिमित्तं विज्ञानं परोक्षं,

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462