Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Udayprabhvijay
Publisher: Vijay Kesharchandrasuri Foundation Girivihar Turst
________________
परिशिष्ट-५
परिशिष्ट-५ तुलनात्मकटीप्पणी 1.. आर्षेऽपि महानिशीथसिद्धान्ते प्रत्यापादि-पुरुषषट्कस्वरूपं किञ्चिद्भङ्गान्तरेण “गोयमा ! छविहे
पुरिसे णेए तं जहा- अहमाहमे, अहमे, विमज्झिमे, उत्तमे, उत्तमुत्तमे, सव्वुत्तमुत्तमे इत्याद्यालापककदम्बकेन ।”
(श्रीमहोपाध्याययशोविजयजीकृत तत्त्वार्थ विवरण पृ.४६) *{पृ.१४} 2. आत्मानं च परं चानुगृह्णाति- कुशलप्रवृत्तेरुभयोरपि श्रेयोमूलत्वात् । तथा चात्र मलिनः स्नायादित्यत्रेव
सिद्धसाध्यसमभिव्याहारे ‘सिद्धं साध्यायोपकल्पत' इति न्यायाद्धितोपदेशस्यानुग्रहहेतुत्वं सिध्यतीति भावः। वस्तुतोऽप्रमत्तस्य साधोः सर्वस्या अपि क्रियायाः परार्थकरणत्वेनानुग्रहहेतुत्वं न्यायसिद्धमेव, तदाहुराचार्याः- “विहितानुष्ठानपरस्य तत्त्वतो योगशुद्धिसचिवस्य । भिक्षाटनादि सर्वं, परार्थकरणं यते यम्”
इति ।।३०।। (श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ.७३) {पृ.२४} 3. मार्गः शुद्धिरित्येके। मोक्षस्य सिद्धिस्थानस्य मार्गः पन्था इत्यपरे, मोक्षस्य कर्माष्टकक्षयलक्षणस्य मार्ग
उपधायको हेतुरिति वयम् । (श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ.८३-८४) (पृ.२९} 4. एकतराभावेऽप्यसाधनानि, स्वरूपयोग्यत्वेऽपि फलोपधानाभावात्, इत्यतस्त्रयाणां ग्रहणम्। (८५-८६)
नन्वेवं मानुषत्वसंहननविशेषादीनामपि मोक्षोपायत्वात्त्रयाणामेवावधारणं कुत इति चेत्, सत्यम्,क तेषां दर्शनादिविशेषाधानेनैवोपक्षीणत्वाद्दर्शनाद्युत्कर्षेण च निर्जरोत्कर्षात्यत्रयाणामेव मोक्षहेतुत्वव्यवस्थितेः । एतेन दानादिक्रियाणां मोक्षहेतृत्वं व्याख्यातं, सम्यक्त्वसाहित्येन घृतं दहतीतिवदुपचरितनयेनैव तासु तथात्वव्यवस्थितेः । तदिदमभिप्रेत्योक्तं हरिभद्राचार्यः- “दाणाइआउ एयं-मि चेव सुद्धाउ हुंति किरिआउ । एआओ वि हु जम्हा, मोक्खफलाओ पराओत्ति”। यदि च व्यवहारनयप्राधान्येन प्रणिधानादिभावसाम्राज्यलब्धातिशयानां तासामेव प्रतिपदिविध्युक्तमोक्षफलत्वं स्वीक्रियते श्रेणिवृद्धयप्रतिपातव्यापारेण चक्रभ्रमणदृष्टान्तेन द्रव्यक्रियाया एव भावहेतुत्वस्य तत्र तत्र व्यवस्थापितत्वान्मोक्षे जननीये यावन्ति चान्तरालकानि तावन्ति तद्द्वाराणीति च विभाव्यते, तथापि दर्शनाद्यङ्गत्वेन दर्शनादावेवान्तर्भावान्नाधिक्या शङ्का । न हि दर्शनादीन्यत्र स्वरूपत एव ग्राह्याणि, किन्तु हेतुतः फलत इति न दुरधिगममिदं नयामृततरङ्गिणीसम्प्लवव्यसनिना। आरोग्यार्थिनो यथा भेषजविषयरुचिस्तद्विषयं परिज्ञानमपथ्यपरिहारेण विधिना तदासेवनक्रिया चेति समुदितं यथारोग्यहेतुस्तथा भवारोग्यार्थिनः क्रियाभेषजे । अत एवोद्देश्यबहुवचनापेक्षामपोद्य समुदायस्य विधेयत्वान्मोक्षमार्ग इत्यत्र विधेयैकत्वापेक्षमेकवचनमित्यपि
वदन्ति । (श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ.८६-८८) {पृ.३३} 5. अत्र ज्ञानं शाब्दप्रमाविशेषरूपं गृहीतम् । (श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ.८९)
(पृ.३५}. 6. एवंभूतं यत्तत्त्वार्थश्रद्धानं तत् सम्यग्दर्शनं, न पुनर्वचनमात्रकमेव, एतच्च किल समस्त प्रशमादिलिङ्गयुक्तं नैश्चयिकं,
"जं मोणंति पासहा, तं संमति पासहा” (यन्मौनमिति पश्यत तत् सम्यगिति पश्यत यत् सम्यगिति पश्यत तत् - मौनमिति पश्यत्) इत्यादिवचनविषयं, आस्तिक्याद्यन्यतरलिङ्गयुक्तं तु व्यावहारिकं, पश्चानुपूर्व्या च प्राय आस्तिक्यादिभावः, * { } अंतर्गत नबर प्रस्तुत अंथनाते पानामोना ? पानामामा मा तुलनात्मs truel T नं५२ माया छ.
Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462