Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Udayprabhvijay
Publisher: Vijay Kesharchandrasuri Foundation Girivihar Turst

View full book text
Previous | Next

Page 432
________________ परिशिष्ट-४ तत्त्वार्थाधिगमटीप्पणम् 28. “अनर्थान्तरं" न अर्थानन्तरानित्यागमे। (अ०१ सू०१३) (पृ.१८१) 29. “अवग्रहेहापायधारणा” “विषय विषयिसन्निपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तर सामान्याकारविशिष्टवस्तुग्रहणमवग्रहः" १ । “अवगृहीतविशेषाकाङ्क्षणमीहा” २। “ईहितविशेषनिर्णयोऽवायः” ३ । स एव दृढतमावस्थापन्नो धारणा” ४ । “संशयपूर्वकत्वादीहायाः संशयाझेदः” । “कथञ्चिदभेदेऽपि परिणामविशेषादेपां व्यपदेशः” “असामस्त्येनाप्युत्पद्यमानत्वेनासंकीर्णस्वभावतयानुभूयमानत्वादपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वात्क्रमभावित्वाच्चेति व्यतिरिच्यन्ते”। “क्रमोऽप्यमीषामयमेव, तथैव संवेदनत्वात्” । ‘एवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाच्च”। “अन्यथा प्रमेयानवगतिप्रसङ्गः”। “न खल्वदृष्टमवगृह्यते न चानवगृहीतं संदिह्यते न चासन्दिग्धमीह्यते न चानीहितमवेयते नाप्यनवेतं धार्यते”। इति स्याद्वादरत्ना कराख्यन्यायशास्त्रे (अ०१ सू० १५) (पृ.१८८). 30. निश्रितं अनिश्रितं निश्रितमिति सापेक्षं, यथा कश्चित्कृष्णरज्जुमवलोक्य सर्प स्मरतीत्यादिवत् । अनिश्रितं निरपेक्षं यथा स्वयमेव सर्पादिकस्मरणमित्यादि । (अ०१ सू०१६) (पृ.१९१) 31. “एतिहा” इतिह इति सम्प्रदायार्थमव्ययपदं ततः स्वार्थेण्यः। (पृ.२१३) 32. दशा ग्रन्थविशेषा इति। (पृ.२१६) 33. “अङ्गप्रविष्ट आचाराङ्गादि” एकादशसु आचारप्रभृतितो विपाकसूत्रपर्यन्तेषु क्रमशः पदद्वैगुण्यं भवति । यथा १८००० अष्टादशसहस्राणि पदानामाचाराङ्गे । अतः ३६०००, ७२०००, १४४०००, २८८०००, ५७६०००, ११५२०००, २३०४०००, ४६०८०००, ९२१६०००, १८४३२०००, द्वादशस्य दृष्टिपाताख्य महासमुद्रस्य पञ्चपदानि तद्यथा- परिकर्म १ सूत्र २ पूर्वानुयोग ३ पूर्वगत ४ चूलिकाः ५। तत्र पूर्वगताख्यचतुर्थपदे चतुर्दशापि पूर्वाणि गजप्रमितमषीपुञ्जलिखनविधिद्विगुणानि क्रमशः १, २, ४, ८, १६, ३२,६४, १२८, २५६, ५१२, १०२४, २०४८, ४०९६, ८१९२ इति । “आचाराङ्गादि” विवाहप्रज्ञप्तिः, विबाधप्रज्ञप्तिः, विविधप्रज्ञप्तिः, व्याख्याप्रज्ञप्तिः, भगवती इत्यनान्तरम् । (पृ.२१७) 34. (किंकृत इति) - केन कृत इति किंकृतः।। (पृ.२१९) 35. (तीर्थकरनामकर्मणः - यदागमः । “तिविहे आगमे पन्नत्ते । तं अत्तागमे, अणन्तरागमे, परंपरागमे” इति । आप्तागमाऽनन्तरागमपरंपरागमभेदात्त्रिविधो ह्यागमः । यथा अर्थतो द्वादशाङ्गी परमेश्वरस्य आप्तागमः । सा चैव सूत्रतो गणधराणामाप्तागमः, अर्थतश्च तेषामनन्तरागमः स्यात्, परमेश्वरेणैवाऽर्थप्ररूपणात् । “अत्थं भासइ, अरहा, सुत्तं गंथंति गणहरा निउणमिति वचनात् । महाराजाधिराजस्य तीर्थकरस्य सूत्रत आप्तागमो नास्तीत्यर्थः। ततो गणधरशिष्याणां सा चैव सूत्रतोऽनन्तरागमः। अर्थतस्तु परम्परागमः स्यात् । ततः परं प्रशिष्यादीनां सूत्रतोऽर्थतश्च परम्परागमः । नह्याप्तागमो नाप्यनन्तरागम इत्यर्थः। ३ आप्तागमो मूलपुरुषप्ररूपित उच्यते, अनन्तरागमस्तु द्वितीयपुरुषगृहीत उच्यते, अर्हतां द्वितीयपुरुषा गणधरा एव भवन्ति । परम्परा परिपाटीत्यर्थः । सा च तृतीयपुरुषादिषु ज्ञेया । यथा गणधराणां द्वितीयपुरुषा गणधरशिष्याः स्युः। अर्हतां त्वेते परंपरागोचरास्तृतीयपुरुषा इत्यर्थः ।। (पृ.२२०)

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462