Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Udayprabhvijay
Publisher: Vijay Kesharchandrasuri Foundation Girivihar Turst

View full book text
Previous | Next

Page 430
________________ परिशिष्ट-४ तत्त्वार्थाधिगमटीप्पणम् १२ यावत्। अन्यानन्यांश्च धर्मान्प्रतिपद्यन्ते इति । जीवास्तावद् देवमनुजादीन्, पुद्गलाः कृष्णादीन् । धर्मादयः पुनस्त्रयः परतोऽन्यानन्यांश्च प्राप्नुवन्ति । यतोऽन्यस्मिन् गच्छति तिष्ठति अवगाहमाने वा जीवे पुद्गले वा गमनादिपरिणामस्तेषामुपचर्यते, अतो हि प्राप्तिलक्षणानि वक्ष्यन्ते इति वृत्तौ हरिभद्रपादाः ।। (पृ.९३) 16. “ प्राभृतज्ञ” इति आगमे पूर्वाख्ये कथ्यमाने 'प्राभृतज्ञ' इति शब्दप्राभृतं तच्च पूर्वेऽस्ति यत इदं व्याकरणमायातं, तत् शब्दप्राभृतं यो जानाति स प्राभृतज्ञो गुरुरेवं ब्रवीति न चैवमहमेव वच्मीति भावः (अ०१ सू०५) (पृ. १०४) 17. “अरूपीति” नास्ति रूपी रूपवानित्यरूपी, नासौ रूपादिधर्मसमन्वित इत्यर्थः छद्मस्थस्य यद्यपि कर्मपटलोपरागस्तथा(प्या) त्मा स्वं स्वभावं न त्यजतीति । आगन्तुकं हि कर्मरजो मलिनयत्यात्मानम्, अभ्रादीव चन्द्रमसमिति ।। (पृ. ११७) 18. “नोस्कन्धा” इति । तथा नोस्कन्धः, अरूपत्वादेष, न स्कन्धः पुद्गलादिरूपः, स्वप्रदेशाङ्गीकरणात्तु स्यात्स्कन्धः । अथवा पञ्चास्तिकायसमुदितिः स्कन्धः, नोशब्दस्य तद्देशवाचित्वान्नोस्कन्धः, सम्यग्दृष्टिः । । (पृ.११७) 19. “नोग्राम इति । " एवं नोग्रामोऽपि वक्तव्यः, 'चउसहिं भूयग्गामेहिं' इत्यागमे भूतग्रामाश्चतुर्दश सन्ति । ततश्च न कश्चित्सकलो ग्रामः सम्यग्दृष्टिः । । (पृ. ११७) 20. “जीवस्याजीवस्य इत्यादि भङ्गाः ।" यदा एकं साध्वादिकं जीवं प्रतीत्य सम्यक्त्वमुत्पद्यते, तदा निमित्तापेक्षया जीवस्यैव १, इह यस्य सम्यग्दर्शनमागतं स जीवो न विवक्षितः १, एवमर्हत्प्रतिमापेक्षयाऽजीवस्य २, द्वयोः साध्वादीनामन्यतमजीवयोर्निमित्तयोरेवाऽपेक्षया जीवयोरिति भङ्गः ३ । एवं द्वयोरर्हत्प्रतिमयोः ४। बहूनां साध्वादीनां निमित्तभूतानामपेक्षया जीवानामिति भङ्गः ५ । एवं बहूनामर्हत्प्रतिमानां ६ | सर्वेष्वपि एतेषु प्राप्तसम्यक्त्वो जीवो नापेक्ष्यते, परसंयोगस्यैवाऽधिकारविवक्षणात् । उत्तरसंयोगे, आत्मपरसंयोगचिन्ता कार्या । तत्र जीवस्य १ अजीवस्य २ इत्येतौ भङ्गौ न स्तः, एकाकिनो ह्युभयसंयोगानौचित्यात्। अथान्ये भङ्गास्तु संभवन्त्विति न वाच्यम् । यस्माज्जीवयोरित्यत्र न हि सम्यक्त्वयुक्तस्य ग्रहणं द्वयोः कयोश्चिन्निमित्तभूतयोरेव ग्रहः क्रियते, तौ च परसंयोगविश्रुतावतस्त्याज्यो जीवयोरिति तृतीयः भङ्गः । एवमजीवयोर्निमित्तभूतयोः । जीवानां निमित्तभूतानां अजीवानां निमित्तभूतानामिति पडपि नादरणीयाः, आत्मसंयोगं विना उभयसंयोगानुत्पत्तेः । अथ षडेव च भङ्गाः शेषा आदरणीयाः, ते त्विमे जीवस्य जीवस्य १, जीवस्य अजीवस्य २, जीवस्य जीवयोः ३, जीवस्य अजीवयोः ४, जीवस्य जीवानां ५, जीवस्य अजीवानां ६ इति । अत्र धारकपुरुषस्य तथा निमित्तभूतस्य कस्यचिदेकस्य द्वयोर्बहूनां च ग्रहणादुभयनयसंयोगाऽविरोधसिद्धिः । न च वाच्यं जीवयोरित्यादिभङ्गेषु जीवस्य च जीवस्य चेति समासबलादुभयसंयोगो भविष्यति । एकपदविभक्त्या एकस्य संयोगस्यैव ग्रहणोपदेशः समाधीयते । (पृ. १२० ) 21. " तदावरणीयस्य कर्मणो दर्शनमोहस्य च " इह सम्यक्त्वोत्पत्तौ ज्ञानावरणीयकर्मणोऽपि पराजयो भवति,

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462