Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 5
________________ लुभिः कविकुलकिरीटव्याख्यानवाचस्पतीति गरीयःपदवीविभूषितैर्नैकासु भाषासु नानाग्रन्थप्रणेतृभिर्विचक्षणप्रवरैर्भव्यजनताता पप्रणोदिभिर्जेनजगद्वन्दितचरणारविन्दैः प्रातस्मरणीयैराचार्यवः श्रीमद्विजयकमलसूरीश्वरपट्टालङ्कारैर्विजयलब्धिसूरीश्वरैः प्राचीनपन्थानमवलम्ब्य सरलतया ग्रन्थोऽयं व्यरचि । ___ अत्र च भागत्रयमस्ति सम्यक्श्रद्धानिरूपणं सम्यक्संविन्निरूपणं सम्यक्चरणनिरूपणमिति । प्रथमे तत्त्वानां नवानां द्वितीये मतिश्रुतावधिमनःपर्यवकेवलज्ञानरूपाणां प्रमाणानां तृतीये चरणकरणयोस्सुगमतया निरूपणं कृतमस्ति । वैशिष्ट्यश्चात्रेदमेव यत्तत्त्वादीनां कचिल्लक्षणरूपेण कचित्फलानुमेयतया कचित्स्वरूपवर्णनरूपेण कचिच्चोपलक्षतया प्रदर्शितानि स्वरूपाणि यतो बालानां तर्ककौशल्यमप्युदीयादिति । तथा सम्यश्रद्धासंविञ्चरणानि मोक्षमार्गाः, सूक्ष्मैकेन्द्रियद्वित्रिचतुरिन्द्रियेत्यादिवाक्यैरनेके न्यायाः सूच्यन्ते । तदेतत्सर्व एभिरेव ग्रन्थकृद्भिर्मुद्रणाय सन्नद्धायां स्वोपज्ञ टीकायां प्रदश्यते । अतो विचारकुशलैः कोविदतल्लजैरत्र न्यूनाधिकत्वं नोत्प्रेक्ष्यम् ॥ .. तदद्य ग्रन्थोऽयं विदुषां परितोषाय पुरतस्समुपस्थाप्यते । लेखनमुद्राप्रमादजा अशुद्धीविंशोध्य गुणदोषविवेचनकुशलैर्मीमांसकैरनुग्रहदृष्ट्याऽयं विलोकनीय इत्याशास्ते ईडरनगरे पौषकृष्णपंचम्याम् : मुनिर्विक्रमविजयः। १०-१-३९ ) ..

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 128