Book Title: Suyagadanga Sutram Part_1
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 308
________________ सूयगडाङ्ग सूत्रं दीपिकान्वितम् । ॥ १३३ ।। होइ "त्ति गद्गदभाषित्वेनाव्यक्तभाषी भवति, न किमपि वक्तुमलम् । तथा " अणाणुवाई " स्याद्वादिनोक्तं साधनमनुवदितुं शीलमस्येत्यनुवादी, तत्प्रतिषेधादननुवादी, सद्धेतुभिर्व्याकुलितमना मौनमेव प्रतिपद्यत इति भावः । यद्यपि ते | परतीर्थिका जैनैः समं वक्तुं न प्रभविष्णवस्तथापि कदाग्रहग्रस्ताः स्वपक्षमेव स्थापयन्ति, तद्यथा-' इमं दुपक्खं इममे गपक्खं ' इदमस्मदभ्युपगतं दर्शनमेकपक्षं, अप्रतिपक्षतया एकान्तिकं - अविरुद्धार्थाभिधायितया निष्प्रतिबाधं पूर्वापराविरुद्धमित्यर्थः । एतद्गुरुवचः शिष्यं प्रति गुरुर्वक्ति । यद्यपि ते दर्शनिनः स्वीयं वचनं एकपक्षमिति भाषन्ते परं द्विपक्षं, द्वौ पक्षावस्येति द्विपक्षं सप्रतिपक्षमनैकान्तिकम् [ परस्परं ] विरुद्धवचनमित्यर्थः । अथवा विरुद्धमनृतमपि निजं वचः 'अविरुद्धं तथ्यं चैतत् ' एवं प्रलापिनां एकपक्षमपि द्विपक्षतया व्यवस्थितं, उत्सूत्रप्ररूपणादिहामुत्र च विडम्बनाकारि चौरपारदारिकयोखि, यथा ते हि करचरणनाशिकाछेदादिकामिदैव पुष्पसदृशां विडम्बनां स्वकर्मजनितामनुभवन्ति, परत्र च नरकादौ तत्फलभूतां वेदनामनुभवन्तीति, एवमन्यदपि कम्र्मोभयवेद्यमभ्युपगम्यते, एवमेकपक्षमपि इहामुत्र च विडम्बनाहेतुकत्वाद्द्विपक्षमित्यर्थः । तथा ते तीर्थान्तरीयाः स्याद्वादोच्छेदाय 'छलायतनं' वाक्छलं १ सामान्यछलं २ उपचारछलं ३ चेति छलत्रयं प्रयुञ्जन्ते । ‘नवकम्बलो देवदत्त' इत्यादिकं छलमाहु-रुक्तवन्तः । अथवा षट् ' आयतनानि' उपादानकारणानिआश्रवद्वाराणि श्रोत्रेन्द्रियादीनि यस्य कर्मणस्तत्षडायतनं कर्मेत्येवमाहुरिति गाथार्थः ॥ ५ ॥ Jain Education international सम्प्रतमेतदूषणायाह *" अथवा मूकादपि मूको[ मूक ]मूकः स्यात् " इति हर्ष० । For Private & Personal Use Only १२ सम०ध्ययने सम्यङ्मा र्गानभिज्ञत्वं सांख्या नाम् । ॥ १३३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372