Book Title: Suyagadanga Sutram Part_1
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 333
________________ | तपसा ग्लानिमुपगच्छामि, एवं तपोमदं न कुर्यात् । तथा गोत्रमदं निर्नामये-दपनयेत, उच्चैः कुलसम्भूतोऽहमित्येवं मदं I न विदध्यादिति । तथा आजीवो-र्थनिचयस्तस्य मदं न कुर्यात् । एवमन्यानपि मदविशेषान् त्यजन् साधुः पण्डित-स्तत्त्ववेत्ता मवति । तथाऽसौ समस्तमदस्थानपरित्यागा-दुत्तमः 'पुद्गल' आत्मा भवति । [प्रधानवाची वा पुद्गलशन्दः, ततश्चायमर्थ:-] उत्तमोत्तमो-महतोऽपि महीयान् भवतीति गाथार्थः ॥ १५ ॥ अथ मदस्थानमुपसंजिहीर्षुराह एताई मयाइं विगिंच धीरे, नेयाणि सेवंति सुधीरधम्मा। .. ते सव्वगोत्तावगया महेसी, उच्च अगोत्तं च गतिं वयांत ॥ १६ ॥ व्याख्या-एतानि मदस्थानानि संसारकारणानि विज्ञाय 'धीरो' विदिततत्वार्थः 'विगिंचह 'त्ति आत्मनः पृथक्कुर्यात्त्यजेदिति भावः। सुधीरधर्माणो नैतानि मदस्थानानि सेवन्ते, ये परित्यक्तसर्वमदस्थाना महर्षयस्तपःशोषितकल्मषाः सर्वस्मादुच्चैर्गोत्रादेरपगताः सन्तः, ' उच्चां' मोक्षाख्यां सर्वोत्तमां गतिं व्रजन्ति । च शब्दान्महाविमानेषु कल्पातीतेषु वा व्रजन्ति-मच्छन्तीति गाथार्थः ॥ १६ ॥ भिक्खू मुयच्चे तह दिट्ठधम्मे, गामं च नगरं च अणुप्पविस्सा। से एसणं जाणमणेसणं च, अन्नस्स पाणस्स अणाणुगिद्धे ॥ १७ ॥ व्याख्या-स एवम्भूतो मदस्थानरहितो भिक्षुः स्नानविलेपनादिसँस्काराभावान्मृता [इव] 'अर्चा' तनुः-शरीरं यस्य स Jain Education internation For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372