Book Title: Suyagadanga Sutram Part_1
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 343
________________ डहरेण वुड्डेणऽणुसासितो उ, रायणिएणा वि समवएणं । सम्मं तयं थिरतो णाभिगच्छे, णिजंतए वावि अपारए से ॥ ७॥ व्याख्या–स साधुः गुरुसमीपे वसन् क्वचित्प्रमादस्खलितः सन् केनापि क्षुल्लकेन प्रमादाचरणं प्रति निषिद्धस्तथा 'वृद्धन वा' [क्योऽधिकेन ] श्रुताधिकेन वा 'अनुशासितो'ऽभिहितो रत्नाधिकेन समवयसा वा अनुशासितः कुप्यति, यथाऽहमनेन द्रमकप्रायेणोत्तमकुलप्रसूतः सर्वजनसम्मत एवं लोकसमक्षं शिक्षित, इत्येवमनुशास्यमानो न मिथ्यादुष्कृतं ददाति नापि तदनुशासनं सम्यस्थिरतो वाऽपुनःकरणतयाऽभिगच्छेत्-न प्रतिपद्येत, सम्यक अप्रतिपद्यमानश्चासौ संसारस्रोतसा 'नीय. मान ' उद्यमानोऽनुशास्यमानः कुपितोऽसौ न संसारार्णवपारगो भवति किन्त्वपारग एव भवतीति गाथार्थः ॥ ७॥ विउट्ठिएणं समयाणुसिवि, डहरेण वुद्वेण उ चोइए य। अब्भुट्टियाए घडदासिए वा, अगारिणं वा समयाणुसिटे ॥ ८॥ व्याख्या-विरुद्धोत्थानेनोस्थितं असम्यश्चारिणं साधुं दृष्ट्वा कश्चित् परतीर्थिको गृहस्थो वा स्वसमयेन शिक्षयेत् , | यथा-नैवंविधमनुष्ठानं भवतामागमे व्यवस्थितं कथं त्वमेवंविधाचरणं कुरुष ? अथवा केनापि साधुना अर्हत्प्रणीता. गमानुसारेण मलोत्तरगुणाऽऽचरणे स्खलितः सन् आगमं प्रदय अभिहितः, यथा-नैतत्वरितगमनादिकं भवतामनुज्ञातं, Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372