Book Title: Suyagadanga Sutram Part_1
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Do
S
पा सहितो-युक्तो ज्ञानादिभिः, तथा [सदा] ' यतः' प्रयतः संयमानुष्ठाने, तथा ' णो कुज्झे' कस्यचिदप्यपकारिणोऽपि न
क्रुध्येत, न क्रोधवशगो भूयान्नापि मानी भवेत् , उत्कृष्टतपोयुक्तोऽपि न गवं विदध्यात् , इत्यादिगुणकलितः साधु-हिन इति निःशहू वाच्य इति ॥२॥ साम्प्रतं श्रमणशब्दार्थ विवृणोति
एत्थ वि समणे अणिस्सिते अनियाणे आदाणं च, अतिवायं च, मुसावायं च, बहिद्धं च, कोहं च, माणं च, मायं च, लोहं च, पिजं च, दोसं च, इच्चेवं जओ जओ आदाणं अप्पणो पदोसहेऊ ततो ततो आदाणातो पुत्विं पडिविरते पाणाइवायाओ[सिआ] दंते दविए वोसटुकाए समणो त्ति वच्चे ॥३॥
व्याख्या-' अत्रापि ' पूर्वोक्तविरत्यादिके गुणसमृहे वर्तमानः श्रमणोऽपि वाच्यः। पुनरेतद्गुणयुक्तेनापि माव्यमित्याह-अनिश्रितो प्रतिबद्धविहारित्वात्तथा 'अनिदानो' निदानरहितः, तथा ' आदानं ' कषायः परिग्रहः सावधानुठानं वा ' अतिपातः' प्राणातिपातः, तथा 'मृषावादोऽसत्य, तथा 'बहिद्धं' मैथुनपरिग्रहौ, इत्यादिज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिक्षया परिहरेत । तथा 'क्रोधं' अप्रीतिलक्षणम् 'मानो' गर्वः माया लोभः 'प्रेम' रागो द्वेषश्च इत्यादिक] संसारावतरणमार्ग मोक्षमार्गविध्वंसकं सम्यक् परिज्ञाय परिहरेदिति, एवमन्यस्मादपि [यतोयतः] कर्मोपादानादिहामुत्र चानर्थहेतोरात्मनोऽपायं पश्यति प्रद्वेषहेतूंश्च, ततस्ततः प्राणातिपातादिकादनर्थदण्डादानात् 'पूर्वमेव ' अना
er
Jain Education in
For Private & Personal use only
anw.jainelibrary.org

Page Navigation
1 ... 367 368 369 370 371 372