Book Title: Suyagadanga Sutram Part_1
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 348
________________ सूयगडाङ्ग १४ ग्रन्थाध्ययन दीपिकान्वितम् ।। ॥१५३॥ तारकसाधुलक्षणम्। मनोवाकायकर्मणा कुतकारितानुमतिभिश्च 'बायी' षट्कायपालकः एतेषु' समितिगुप्त्यादिषु समाधिमार्गे I स्थितस्य तस्य साधोः शान्तिर्भवति-अशेषद्वन्द्वोपरमो भवति । तथाऽशेषकर्मक्षयरूपं निरोधमाहुः । क एवमाहुः त्रिलोकदर्शिन:-सर्वज्ञाः केवलालोकेन दृष्ट्वा प्रतिपादयन्ति । किम् ? एतदेव समितिगुप्त्यादिकं संसारोत्तारणसमर्थ मार्ग जानीहि, नान्यथेति । एतदेव कथितवन्तः, न पुनः प्रमादसङ्गं विधेयत्वेन प्रतिपादितवन्त इति गाथार्थः ॥ १६ ॥ निसम्म से भिक्खु समीहियटुं, पडिभाणवं होति विसारए य । आयाणअट्ठी वोदाणमोणं, उवेच्च सुद्धेण उवेति मोक्खं ॥ १७ ॥ व्याख्या-स गुरुकुलवासी भिक्षुः 'द्रव्यस्य' मुक्तिगमनयोग्यस्य “वृत्तं ' आचारं निशम्य स्वतः समीहितार्थ मोक्षाख्यं बुद्धवा-हेयोपादेयं सम्यकपरिज्ञाय 'प्रतिभा[न]वान् ' उत्पन्न प्रतिभो भवति । ततश्च श्रोतृणां यथास्थितार्थानां 'विशारदः' प्रतिपादको भवति । ईदशः साधुरादानार्थी-मोक्षार्थी+'व्यवदानं' द्वादशप्रकारं तपस्तथा ' मौनं ' संयमस्तदेवमेतो तपस्संयमौ ' उपेत्य ' प्राप्य 'शुद्धेन' द्विचत्वारिंशद्दोषरहितेन आहारेणात्मानं यापयन् मोक्षमुपैतीति गाथार्थः ॥१७॥ तदेवं गुरुकुलवासितया धर्म सुस्थिताः बहुश्रुताः प्रतिभा[न]वन्तोऽर्थविशारदाश्च सन्तो यस्कुर्वन्ति तदर्शयितुमाह संखाए धम्मं च वियागरंति, बुद्धा हु ते अंतकरा भवति । + " आदीयते मोक्षार्थिभिरिति आदानं-ज्ञानादि, स एवार्थो विद्यते यस्य स आदानार्थी-ज्ञानादिप्रयोजनवान् " इति हर्ष । Jain Education T rna For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372