SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ | तपसा ग्लानिमुपगच्छामि, एवं तपोमदं न कुर्यात् । तथा गोत्रमदं निर्नामये-दपनयेत, उच्चैः कुलसम्भूतोऽहमित्येवं मदं I न विदध्यादिति । तथा आजीवो-र्थनिचयस्तस्य मदं न कुर्यात् । एवमन्यानपि मदविशेषान् त्यजन् साधुः पण्डित-स्तत्त्ववेत्ता मवति । तथाऽसौ समस्तमदस्थानपरित्यागा-दुत्तमः 'पुद्गल' आत्मा भवति । [प्रधानवाची वा पुद्गलशन्दः, ततश्चायमर्थ:-] उत्तमोत्तमो-महतोऽपि महीयान् भवतीति गाथार्थः ॥ १५ ॥ अथ मदस्थानमुपसंजिहीर्षुराह एताई मयाइं विगिंच धीरे, नेयाणि सेवंति सुधीरधम्मा। .. ते सव्वगोत्तावगया महेसी, उच्च अगोत्तं च गतिं वयांत ॥ १६ ॥ व्याख्या-एतानि मदस्थानानि संसारकारणानि विज्ञाय 'धीरो' विदिततत्वार्थः 'विगिंचह 'त्ति आत्मनः पृथक्कुर्यात्त्यजेदिति भावः। सुधीरधर्माणो नैतानि मदस्थानानि सेवन्ते, ये परित्यक्तसर्वमदस्थाना महर्षयस्तपःशोषितकल्मषाः सर्वस्मादुच्चैर्गोत्रादेरपगताः सन्तः, ' उच्चां' मोक्षाख्यां सर्वोत्तमां गतिं व्रजन्ति । च शब्दान्महाविमानेषु कल्पातीतेषु वा व्रजन्ति-मच्छन्तीति गाथार्थः ॥ १६ ॥ भिक्खू मुयच्चे तह दिट्ठधम्मे, गामं च नगरं च अणुप्पविस्सा। से एसणं जाणमणेसणं च, अन्नस्स पाणस्स अणाणुगिद्धे ॥ १७ ॥ व्याख्या-स एवम्भूतो मदस्थानरहितो भिक्षुः स्नानविलेपनादिसँस्काराभावान्मृता [इव] 'अर्चा' तनुः-शरीरं यस्य स Jain Education internation For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy