________________
सूयगडाङ्ग
सूत्रं
दीपिका
न्वितम् ।
॥ १४५ ॥
एवं ण से होइ समाहिपत्ते, जे पन्नवं भिक्खु विउक्कसेज्जा ।
अहवा वि जे लाभमयावलित्ते, अन्नं जणं खिंसति बालपने ॥ १४ ॥
व्याख्या - एवमात्मोत्कर्षं कुर्वन्नपरानवगणयन् समस्तशास्त्रार्थविशारदोऽपि तस्वार्थावगाढप्रज्ञोऽपि 'समाधि' मोक्षमागे ज्ञानदर्शनचारित्ररूपं न प्राप्तो भवति, परमार्थोदधेरुपर्येव पुत्रते । क एवम्भूतो भवतीति दर्शयति- ' जे पन्नवं भिक्खु विउक्कसेज्ज' त्ति, यो ह्यविदितपरमार्थतया आत्मानमेव प्रतिभावन्तं मन्यमानः स्वप्रज्ञया भिक्षुः 'उत्कर्षेत्' गर्व कुर्यात्, नासौ समाधिप्राप्तो भवति । अथवा यो हि अल्पान्तरायो लब्धिमानात्मकृते परस्मै चोपकरणादिकमुत्पादयितुं समर्थः सतुच्छस्वभावतया मदं कुर्वन् न समाधिप्राप्तः कथ्यते । स चान्यं जनं कर्मोदयादलब्धिमन्तं 'खिंसह ' ति निन्दति पराभवति, वक्ति च-न मत्तुल्यः सर्वसाधारणशय्यासँस्तारका छुपकरणोत्पादकोऽस्ति, किमन्यैः ? स्वोदरमरणव्यग्रतया काकप्रायैः कृत्यमस्तीत्येवं ' बालप्रज्ञो ' मूर्खप्रायोऽपरजनापवादं विदध्यादिति गाथार्थः ॥ १४ ॥
Jain Education International
एवं मदे कृते बालसदृशैर्भूयते, अतो मदं न विदध्यादित्याह
पण्णामयं चैव तवोमयं च, निन्नामए गोयमयं च भिक्खू |
आजीवगं चेव चउत्थमाहु, से पंडिए उत्तमपुग्गले से ॥ १५ ॥
व्याख्या - प्रज्ञामदं तपोमदं च न कुर्यात्, अहमेव [ यथाविधशास्त्रार्थस्य वेत्ता, तथाऽहमेव ] विकृष्टतपोविधायी, नाहं
For Private & Personal Use Only
१३ याथातथ्या
ध्ययनेपरिहार्यत्वं
मदस्था
नानाम् ।
॥ १४५ ॥
www.jainelibrary.org