________________
आगाढपण्णे सुविभावियप्पा, अन्नं जणं पन्नया परिहवेज्जा ॥ १३ ॥ व्याख्या-तथा यः साधुर्भाषागुणदोषज्ञः, तथा सुसाधुवादी-हितमितवक्ता, प्रियंवद इत्यर्थः, क्षीराश्रवमध्वाश्रवलब्धियुक्तस्तथा 'प्रतिमा[न]वान् ' बुद्धिचतुष्टययुक्ता-परेणाक्षिप्तस्तत्कालमेवोत्तरदानसमर्थः, यदिवा धर्मकथावसरे 'कोऽयं पुरुषः? कं च देवताविशेषं प्रणतः ? कतरद्वा दर्शनमाश्रितः' इत्येवमासन्नप्रतिभतयाऽवेत्य यथायोगमुत्तरं ददाति । तथा 'विशारदो 'ऽर्थग्रहणसमर्थः, चशब्दात् श्रोत्रभिप्रायज्ञः, तथा ' आगाढप्रज्ञः' परमार्थपर्यवसितबुद्धिः-तत्वार्थवेदी, तथा ' सुविभावितात्मा' सुधर्मवासनावासितः, एवंविधगुणान्वितः शोभनः साधुर्भवति । यश्चामीभिर्गुणैर्निर्जराहेतुभृतैर्युक्तोऽपि यदि मदं कुर्यात्तदाऽन्येषां का वार्ता । कथं मदं करोति ? तद्यथा-यथाऽहमेव भाषाविधिज्ञस्तथा साधुवाद्यहमेव, न मत्तुल्यः प्रतिभा[न]वानस्ति । नापि च मत्समानो लौकिकलोकोत्तरशास्त्रार्थविशारदो अवगाढप्रज्ञः, सुभावितात्मा. ऽहमेवेति चैवमात्मोत्कर्षवानपरं जनं स्वकीयया प्रज्ञया 'परिभवेत् ' अवहीलयति । तथाहि-किमनेन वाकुण्ठेन दुर्दुरूढेन कुण्डिकाकार्पासकल्पेन ? नाऽसौ साधुवर्गः किमपि वेत्ति, वयमेव भगवदाज्ञावर्तिनः क्रमागता बहुश्रुता वा इत्यादिवाग्वि. लासेन साधूनामवर्णवादेनात्मोत्कर्षपराः क्वचित्सभायां धर्मकथावसरे वा भवन्ति । तथा चोक्तं "अन्यैः स्वेच्छारचि. ता-नर्थविशेषान् ऋ[]मेण विज्ञाय । कृत्स्नं वाङ्मयमित इति, खादत्यङ्गानि दर्पण ॥ १॥"॥ १३ ॥
साम्प्रतमेतदोषाभिधित्सयाऽऽह
२५
Jain Education internaciona
For Private & Personal use only
www.jainelibrary.org