________________
सूयगडाङ्ग
सत्र दीपिकान्वितम् ।
१३ याथातथ्याध्ययने त्याज्यत्वमभिमानदोषस्य।
॥१४४॥
व्याख्या-न तस्य जातिमदः कुलमदो वा क्रियमाणः संसारे पर्यटतस्त्राणं भवति । यत्पुनः संसारोत्तारकत्वेन त्राण- समर्थ तद्दर्शयति-ज्ञानं च चरणं च ज्ञानचरणं, तस्मादन्यत्र संसारोत्तरणित्राणाशा न विद्यते । एतच्च सम्यक्त्वोपबृंहितं[सुचीर्ण] संसारादुत्तारयति "ज्ञानक्रियाभ्यां मोक्ष" इति वचनात् । यः पुनः प्रव्रज्यां गृहीत्वाऽपि ' अगारिकर्म' गृहस्थकर्मानुष्ठानं सावद्यारम्भं जातिमदादिकं वा सेवते, न चासावगारिकर्मणां सेवकोऽशेषकर्ममोचनाय पारगो भवति, निम्शेषकर्मक्षयकारी न भवतीत्यर्थः । देशमोचना तु प्रायशः सर्वेषामेव प्राणिनां प्रतिक्षणमुपजायत इति गाथार्थः ॥ ११ ॥ पुनरप्यभिमानदोषं दर्शयति
निक्किंचणे भिक्खु सुलूहजीवी, जे गारवं होति सिलोगगामी।
आजीवमेयं तु अबुज्झमाणे, पुणो पुणो विप्परियासुवेति ॥ १२ ॥ ____ व्याख्या-साधुनिष्किश्चनोऽपि 'भिक्षुः' परदत्तोपजीवी [' सुरूक्षजीवी'] अन्तप्रान्ताशनभोज्यपि यः कश्चिद्गौरव प्रियो भवति, तथा ' श्लोककामी' आत्मश्लाघाऽभिलाषी भवति, स च परमार्थमजानानः, एतदेव अकिश्चनत्वं सुरूक्ष जीवित्वं च आत्मश्लाघातत्परतया आजीविका-मात्मवर्तनोपायं कुर्वाणः पुनः पुनः संसारकान्तारे 'विपर्यासं' जातिजरामरणरोगशोकोपद्रवमुपैति-गच्छति । तदुत्तरणायाभ्युद्यतोऽपि तत्रैव निमजतीत्ययं विपर्यास इति गाथार्थः ॥ १२ ॥
जे भासवं भिक्खु सुसाहुवादी, पडिहाणवं होति विसारए य ।
| ॥१४४॥
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org