SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ कुर्यात् , स न सर्वज्ञप्रणीते मार्गे विद्यते, तथा 'वसु' द्रव्यं, तच्चेह संयमस्तं संयममादाय परमार्थमजानन् [अन्यतरेण ] | | ज्ञानादिना माद्यति स पठन्नपि सर्वशास्त्राणि तदर्थ चावगच्छन्नपि सर्वज्ञमतं परमार्थतो न जानातीति गाथार्थः ॥९॥ वश्वात्मानं बहुमन्यते मदं च करोति स तु परमार्थतो अज्ञानी अत एवं करोति । अथ जातिमधिकृत्याह जे माहणे खत्तियजायए वा, तहुग्गपुत्ते तह लेच्छई वा । जे पवईए परदत्तभोई, गोत्ते ण जे थब्भऽभिमाणबद्धे ॥ १० ॥ व्याख्या-यो जात्या ब्राह्मणः क्षत्रियो वा उग्रपुत्रः, 'लेच्छई वा' क्षत्रियविशेष एव, एवमादि विशिष्टकुलोत्पन्नोऽपि यथावस्थितसंसारस्वरूपवेदी[य:] प्रबजित-रत्यक्तराज्यादिगृहबन्धनः, परदत्तभोजी, सम्यक्संयमानुष्ठायी उच्चैर्गोत्रे हरिवंशादिके समुत्पन्नोऽपि स्तम्भ' गर्व नोपयायात् , गर्व न करोतीति भावः । किम्भूते गोत्रे जातः ? ' अभिमानबद्धे' अभिमानास्पदे । किमुक्तं भवति ? विशिष्टकुलोत्पन्नोऽपि सर्वलोकमान्योऽपि प्रबजितः सन् कतशिरस्तुण्डमुण्डमुण्डनो भिक्षार्थ परगृहाण्यटन् कथं हास्यास्पदं गर्व कुर्यात् ? नैवासौ मानं विदध्यादिति गाथार्थः ।। १०॥ न चासौ मानः क्रियमाणो गुणाय स्यादिति दर्शयितुमाह । न तस्स जाती व कुलं व ताणं, णन्नत्थ विजा चरणं सुचिण्णं । णिखम्म से सेवतिऽगारिकम्म, ण से पारए होति विमोयणाए ॥ ११ ॥ मुक्तं भवति ? विशिष्टकुलोपन करोतीति भावः । किसयमानुष्ठायी उच्चैर्गोत्रे हरि Jain Education international For Private & Personal use only
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy