Book Title: Suyagadanga Sutram Part_1
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 336
________________ सूयगडाङ्ग काया दीपिका- न्वितम् । तथ्या ध्ययनेश्रोत्रनुरूपदेशनाया:कर्त्तव्यत्वम् ॥१४७॥ 'क्षुद्रत्वमपि गच्छेत् ' विरूपमपि कुर्यात् , पालकपुरोहितवत् स्कन्दकाचार्यस्येति । ततः स निन्दावचनकुपितो वक्तु+रायुषो व्याघातं कालातिचार-दीपस्थितिकमप्यायुस्संवर्तयेत् । धर्मदेशना हि पुरुषविशेषं ज्ञात्वा विधेया, तद्यथा-कोऽयं पुरुषो राजादिकः, कं च देवताविशेषं नतः, कतरद्वा दर्शनमाश्रित इति सम्यग्भावं परिज्ञाय यथायोग्यं देशना विधेया। यः पुनरेत-दवुद्ध्वा धर्मदेशनाद्वारेण परविरोधकृद्धचो ब्रूयात् स तस्मान्मरणादिकमपकारं प्राप्नुयात् । यत एवं ततो लब्धानुमान:-पराभिप्रायं ज्ञात्वा यथायोगमर्थान्-सद्धर्मप्ररूपणादिकान् मावान् स्वपरोपकाराय वदेदिति गाथार्थः ॥ २०॥ कम्मं च छंदं च विगिंच धीरे, विणएज उ सवतो आय(पाव)भावं । रूवेहि लुप्पंति भयावहेहि, विजं गहाय तसथावरेहिं ॥ २१ ॥ व्याख्या-धीरः' अक्षोभ्यो धर्मकथाश्रोतु: देशनावसरे 'कर्म 'अनुष्ठानं गुरुलघुकर्ममावं [ वा ], छन्द-मभिप्राय | च श्रोतुर्जानीयात् । असौ धर्मश्रोता कि गुरुकर्मा लघुकर्मा वा इत्याद्यालोच्य धर्मकथिको धर्मदेशनां कुर्यात् । यथा च तस्य श्रोतु वादिपदार्थावगमो भवति, यथा च मनसि न यते, अपि तु प्रसमतां ब्रजेचथा वाच्यं, एवं च धर्मोपदेश यच्छन् विशेषेण अपनयेत्पर्पदः 'पापभावं' अशुद्धमन्तःकरणं विशिष्टगुणारोपणं च कुर्यात् । [क्वचित्पाठ] 'आयभावं' +जिनधर्मभाषकस्य । ४ 'पावभाव 'मिति स्वाभाविकत्वेन 'आयभाव 'मिति तु पाठान्तरत्वेन स्वीकृतो वृत्तिकृत्पूज्यैरपि । | तथा “ आतभावं-आतभावो णाम मिथ्यात्वं अविरतो वा" इति चूर्णिकाराः । ॥१४७॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372