Book Title: Suyagadanga Sutram Part_1
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 337
________________ ति [तत्र] आत्मभावोऽनादिभवाभ्यस्तो मिथ्यात्वादिकस्तमपनयेत् । यदिवा 'आत्मभावो' विषयगृध्नुता, तामपनयेदिति । एतद्दर्शयति-'रूवेहिं लुप्पंति भयावहेहिं रूपै-नयनमनोहारिभिः स्त्रीणामङ्गप्रत्यङ्गकटाक्षनिरीक्षणादिभिरल्पसवा 'विलुप्यन्ते' सद्धर्माच्याव्यन्ते, रूपैः कथम्भृतैः' ! 'भयावहै।' भयानकैः, इहैव तावद्रपादिविषयासक्तस्य साधुजनजुगुप्सा, नानाविधा विडम्बनाश्च प्रादुर्भवन्ति इहलोके, परलोके च बहुविधा वेदनाः विषयासक्ता अनुभवन्ति । एवं विद्वान्-पण्डितो धर्मदेशनाचतुरो पराभिप्रायं सम्यग्गृहीत्वा पर्षदनुसारेण त्रसस्थावरेभ्यो हितं धर्ममाविर्भावयेदिति गाथार्थः ॥ २१ ॥ पूजासत्कारादिनिरपेक्षेण च सर्व तपश्चरणादिकं विधेयं विशेषतो धर्मदेशनेत्येतदभिप्रायवानाह न पूयणं चेव सिलोयकामी, पियमाप्पियं कस्सइ णो करिजा । सवे अणट्रे परिवजयंते, अणाउले या अकसाइ भिक्खू ॥ २२॥ , व्याख्या-साधुर्धर्मदेशनां कुर्वन् 'पूजनं' वस्त्रादिलामरूपं न वाँछेनापि ' श्लोकं' कीर्ति-प्रशंसामभिलषेत् । तथा श्रोतुः प्रियं (राजकथादिक) अप्रियं च न कथयेत्-तत्समाश्रितदेवताविशेष न निन्देत् । रागद्वेषरहितः श्रोतुरभिप्राय समीक्ष्य यथावस्थितं धर्म सम्यग्दर्शनादिरूपं कथयेत् । उपसंहारमाह-सर्वाननन् पूजासत्कारलाभाभिप्रायेण स्वकृतान् परदूषणतया च परकृतान् परिहरन् कथयेदनाकुलः, अकषायी भिक्षुर्भवेदिति गाथार्थः ॥ २२॥ सर्वाभ्ययनोपसंहारार्थमाह Jain Education Intema For Privale & Personal use only jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372