________________
ति [तत्र] आत्मभावोऽनादिभवाभ्यस्तो मिथ्यात्वादिकस्तमपनयेत् । यदिवा 'आत्मभावो' विषयगृध्नुता, तामपनयेदिति । एतद्दर्शयति-'रूवेहिं लुप्पंति भयावहेहिं रूपै-नयनमनोहारिभिः स्त्रीणामङ्गप्रत्यङ्गकटाक्षनिरीक्षणादिभिरल्पसवा 'विलुप्यन्ते' सद्धर्माच्याव्यन्ते, रूपैः कथम्भृतैः' ! 'भयावहै।' भयानकैः, इहैव तावद्रपादिविषयासक्तस्य साधुजनजुगुप्सा, नानाविधा विडम्बनाश्च प्रादुर्भवन्ति इहलोके, परलोके च बहुविधा वेदनाः विषयासक्ता अनुभवन्ति । एवं विद्वान्-पण्डितो धर्मदेशनाचतुरो पराभिप्रायं सम्यग्गृहीत्वा पर्षदनुसारेण त्रसस्थावरेभ्यो हितं धर्ममाविर्भावयेदिति गाथार्थः ॥ २१ ॥ पूजासत्कारादिनिरपेक्षेण च सर्व तपश्चरणादिकं विधेयं विशेषतो धर्मदेशनेत्येतदभिप्रायवानाह
न पूयणं चेव सिलोयकामी, पियमाप्पियं कस्सइ णो करिजा ।
सवे अणट्रे परिवजयंते, अणाउले या अकसाइ भिक्खू ॥ २२॥ , व्याख्या-साधुर्धर्मदेशनां कुर्वन् 'पूजनं' वस्त्रादिलामरूपं न वाँछेनापि ' श्लोकं' कीर्ति-प्रशंसामभिलषेत् । तथा श्रोतुः प्रियं (राजकथादिक) अप्रियं च न कथयेत्-तत्समाश्रितदेवताविशेष न निन्देत् । रागद्वेषरहितः श्रोतुरभिप्राय समीक्ष्य यथावस्थितं धर्म सम्यग्दर्शनादिरूपं कथयेत् । उपसंहारमाह-सर्वाननन् पूजासत्कारलाभाभिप्रायेण स्वकृतान् परदूषणतया च परकृतान् परिहरन् कथयेदनाकुलः, अकषायी भिक्षुर्भवेदिति गाथार्थः ॥ २२॥
सर्वाभ्ययनोपसंहारार्थमाह
Jain Education Intema
For Privale & Personal use only
jainelibrary.org