________________
सूयगडाङ्ग
काया
दीपिका- न्वितम् ।
तथ्या ध्ययनेश्रोत्रनुरूपदेशनाया:कर्त्तव्यत्वम्
॥१४७॥
'क्षुद्रत्वमपि गच्छेत् ' विरूपमपि कुर्यात् , पालकपुरोहितवत् स्कन्दकाचार्यस्येति । ततः स निन्दावचनकुपितो वक्तु+रायुषो व्याघातं कालातिचार-दीपस्थितिकमप्यायुस्संवर्तयेत् । धर्मदेशना हि पुरुषविशेषं ज्ञात्वा विधेया, तद्यथा-कोऽयं पुरुषो राजादिकः, कं च देवताविशेषं नतः, कतरद्वा दर्शनमाश्रित इति सम्यग्भावं परिज्ञाय यथायोग्यं देशना विधेया। यः पुनरेत-दवुद्ध्वा धर्मदेशनाद्वारेण परविरोधकृद्धचो ब्रूयात् स तस्मान्मरणादिकमपकारं प्राप्नुयात् । यत एवं ततो लब्धानुमान:-पराभिप्रायं ज्ञात्वा यथायोगमर्थान्-सद्धर्मप्ररूपणादिकान् मावान् स्वपरोपकाराय वदेदिति गाथार्थः ॥ २०॥
कम्मं च छंदं च विगिंच धीरे, विणएज उ सवतो आय(पाव)भावं ।
रूवेहि लुप्पंति भयावहेहि, विजं गहाय तसथावरेहिं ॥ २१ ॥ व्याख्या-धीरः' अक्षोभ्यो धर्मकथाश्रोतु: देशनावसरे 'कर्म 'अनुष्ठानं गुरुलघुकर्ममावं [ वा ], छन्द-मभिप्राय | च श्रोतुर्जानीयात् । असौ धर्मश्रोता कि गुरुकर्मा लघुकर्मा वा इत्याद्यालोच्य धर्मकथिको धर्मदेशनां कुर्यात् । यथा च तस्य श्रोतु वादिपदार्थावगमो भवति, यथा च मनसि न यते, अपि तु प्रसमतां ब्रजेचथा वाच्यं, एवं च धर्मोपदेश यच्छन् विशेषेण अपनयेत्पर्पदः 'पापभावं' अशुद्धमन्तःकरणं विशिष्टगुणारोपणं च कुर्यात् । [क्वचित्पाठ] 'आयभावं'
+जिनधर्मभाषकस्य । ४ 'पावभाव 'मिति स्वाभाविकत्वेन 'आयभाव 'मिति तु पाठान्तरत्वेन स्वीकृतो वृत्तिकृत्पूज्यैरपि । | तथा “ आतभावं-आतभावो णाम मिथ्यात्वं अविरतो वा" इति चूर्णिकाराः ।
॥१४७॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org