________________
न कश्चित्सहायो धर्ममेकं विहाय, एतद्विगणय्य संयम[स्तेन तत् ]प्रधानं वा व्यादिति गाथार्थः ॥ १८ ॥ किञ्च
सयं समिच्चा अदुवा वि सोच्चा, भासेज धम्मं हितयं पयाणं।
जे गरहिया सणियाणप्पओगा, ण ताणि सेवंति सुधीरधम्मा ॥ १९ ॥ व्याख्या-'स्वयं' आत्मना परोपदेशमन्तरेण संसारकारणानि मिथ्यात्वाविरतिप्रमादकपाययोगरूपाणि 'समेत्य' ज्ञात्वा तथा मोक्षं तत्कारणानि च सम्यग्ज्ञानदर्शनचारित्राणि, एतत्सर्व स्वत एव ज्ञात्वा अन्य स्माद्वाऽऽचार्यादेः सकाशाच्छ्रुत्वा अन्यस्मै मुमुक्षवे धर्म भाषेत । किम्भूतं ? 'प्रजानां ' स्थावरजङ्गमाना जन्तूनां हितं धर्म ब्रूयादिति उपादेयं प्रदर्य हेयं प्रदर्शयति-ये 'गर्हिता' जुगुप्सिता मिथ्यात्वादयः कर्मबन्धहेतवः, सनिदानाः 'प्रयोगा' व्यापारा ममास्मात्सकाशात किश्चित्पूजालाभसत्कारादिकं भविष्यतीत्येवम्भूतनिदानाशंसारूपास्ताँश्च चारित्रविघ्नभृतान् महर्षयः सुधीरधर्माणो न सेवन्ते' नानुतिष्ठन्ति, न वदन्तीति गाथार्थः ॥ १९॥ किश्च
___ केसिंचि तक्काइ अबुझ भावं, खुद्दपि गच्छेज्ज असदहाणे ।
आउस्स कालाइयारं वघाए, लद्धाणुमाणे य परस्स अट्रे॥ २०॥ व्याख्या-पांचिन्मिथ्यादृष्टीनां कुतीर्थिकभावितानां तर्कया' वितर्केण दुष्टाभिप्राय अबुद्धा कश्चित्साधुः श्रावको वा स्वधर्मस्थापनेच्छया कुतीर्थिकतिरस्कारप्रायं वचो बयात् , [ स च] तीर्थिकस्तद्वचनमश्रद्दधानोऽतिकटुकत्वं भावयन्
Jain Education
a
l
For Privale & Personal use only
|
www.jainelibrary.org