Book Title: Suyagadanga Sutram Part_1
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 332
________________ सूयगडाङ्ग सूत्रं दीपिका न्वितम् । ॥ १४५ ॥ एवं ण से होइ समाहिपत्ते, जे पन्नवं भिक्खु विउक्कसेज्जा । अहवा वि जे लाभमयावलित्ते, अन्नं जणं खिंसति बालपने ॥ १४ ॥ व्याख्या - एवमात्मोत्कर्षं कुर्वन्नपरानवगणयन् समस्तशास्त्रार्थविशारदोऽपि तस्वार्थावगाढप्रज्ञोऽपि 'समाधि' मोक्षमागे ज्ञानदर्शनचारित्ररूपं न प्राप्तो भवति, परमार्थोदधेरुपर्येव पुत्रते । क एवम्भूतो भवतीति दर्शयति- ' जे पन्नवं भिक्खु विउक्कसेज्ज' त्ति, यो ह्यविदितपरमार्थतया आत्मानमेव प्रतिभावन्तं मन्यमानः स्वप्रज्ञया भिक्षुः 'उत्कर्षेत्' गर्व कुर्यात्, नासौ समाधिप्राप्तो भवति । अथवा यो हि अल्पान्तरायो लब्धिमानात्मकृते परस्मै चोपकरणादिकमुत्पादयितुं समर्थः सतुच्छस्वभावतया मदं कुर्वन् न समाधिप्राप्तः कथ्यते । स चान्यं जनं कर्मोदयादलब्धिमन्तं 'खिंसह ' ति निन्दति पराभवति, वक्ति च-न मत्तुल्यः सर्वसाधारणशय्यासँस्तारका छुपकरणोत्पादकोऽस्ति, किमन्यैः ? स्वोदरमरणव्यग्रतया काकप्रायैः कृत्यमस्तीत्येवं ' बालप्रज्ञो ' मूर्खप्रायोऽपरजनापवादं विदध्यादिति गाथार्थः ॥ १४ ॥ Jain Education International एवं मदे कृते बालसदृशैर्भूयते, अतो मदं न विदध्यादित्याह पण्णामयं चैव तवोमयं च, निन्नामए गोयमयं च भिक्खू | आजीवगं चेव चउत्थमाहु, से पंडिए उत्तमपुग्गले से ॥ १५ ॥ व्याख्या - प्रज्ञामदं तपोमदं च न कुर्यात्, अहमेव [ यथाविधशास्त्रार्थस्य वेत्ता, तथाऽहमेव ] विकृष्टतपोविधायी, नाहं For Private & Personal Use Only १३ याथातथ्या ध्ययनेपरिहार्यत्वं मदस्था नानाम् । ॥ १४५ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372