Book Title: Suyagadanga Sutram Part_1
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 331
________________ आगाढपण्णे सुविभावियप्पा, अन्नं जणं पन्नया परिहवेज्जा ॥ १३ ॥ व्याख्या-तथा यः साधुर्भाषागुणदोषज्ञः, तथा सुसाधुवादी-हितमितवक्ता, प्रियंवद इत्यर्थः, क्षीराश्रवमध्वाश्रवलब्धियुक्तस्तथा 'प्रतिमा[न]वान् ' बुद्धिचतुष्टययुक्ता-परेणाक्षिप्तस्तत्कालमेवोत्तरदानसमर्थः, यदिवा धर्मकथावसरे 'कोऽयं पुरुषः? कं च देवताविशेषं प्रणतः ? कतरद्वा दर्शनमाश्रितः' इत्येवमासन्नप्रतिभतयाऽवेत्य यथायोगमुत्तरं ददाति । तथा 'विशारदो 'ऽर्थग्रहणसमर्थः, चशब्दात् श्रोत्रभिप्रायज्ञः, तथा ' आगाढप्रज्ञः' परमार्थपर्यवसितबुद्धिः-तत्वार्थवेदी, तथा ' सुविभावितात्मा' सुधर्मवासनावासितः, एवंविधगुणान्वितः शोभनः साधुर्भवति । यश्चामीभिर्गुणैर्निर्जराहेतुभृतैर्युक्तोऽपि यदि मदं कुर्यात्तदाऽन्येषां का वार्ता । कथं मदं करोति ? तद्यथा-यथाऽहमेव भाषाविधिज्ञस्तथा साधुवाद्यहमेव, न मत्तुल्यः प्रतिभा[न]वानस्ति । नापि च मत्समानो लौकिकलोकोत्तरशास्त्रार्थविशारदो अवगाढप्रज्ञः, सुभावितात्मा. ऽहमेवेति चैवमात्मोत्कर्षवानपरं जनं स्वकीयया प्रज्ञया 'परिभवेत् ' अवहीलयति । तथाहि-किमनेन वाकुण्ठेन दुर्दुरूढेन कुण्डिकाकार्पासकल्पेन ? नाऽसौ साधुवर्गः किमपि वेत्ति, वयमेव भगवदाज्ञावर्तिनः क्रमागता बहुश्रुता वा इत्यादिवाग्वि. लासेन साधूनामवर्णवादेनात्मोत्कर्षपराः क्वचित्सभायां धर्मकथावसरे वा भवन्ति । तथा चोक्तं "अन्यैः स्वेच्छारचि. ता-नर्थविशेषान् ऋ[]मेण विज्ञाय । कृत्स्नं वाङ्मयमित इति, खादत्यङ्गानि दर्पण ॥ १॥"॥ १३ ॥ साम्प्रतमेतदोषाभिधित्सयाऽऽह २५ Jain Education internaciona For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372