Book Title: Suyagadanga Sutram Part_1
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सूयगडा
सूत्रं दीपिकान्वितम् ।
१३ याथातथ्याध्ययनेसंसार
पर्यटनमनु
॥१४२॥
आत्मनो जयमिच्छतीत्यर्थः । तथा 'विओसियंति व्यवसितं-उपशान्तं कलहं-विवादं यः पुनरप्युदीरयेत्-प्रज्वालयेत् , | किमुक्तं भवति ? कलहकारिभिमिथ्यादुष्कृतादिना परस्परं शामितेऽपि तत्तद्व्यात् येन पुनरपि तेषां क्रोधोदयो भवति । साम्प्रतमेतद्विपाकं दर्शयति-यथा ह्यन्धः ' दण्डपथं' गोदण्डं [लघुमार्ग ] गृहीत्वा व्रजन् अज्ञानतया कण्टकश्वापदादिभिः पीड्यते, एवमसावपि केवललिङ्गधारी अनुपशान्तक्रोधः कर्कशभाषी अधिकरणोद्दीपकः अनुपशान्तद्वन्द्वः 'पापकर्मकारी' अनार्यकर्मकर्ता, एते सर्वेऽपि संसारे अनन्तशः [धृष्यन्ते-] पीड्यन्त इति गाथार्थः ॥ ५॥ किश्ान्यत्
जे विग्गहीए अन्नायभासी, न से समे होति अझंझपत्ते।।
ओवायकारी य हिरीमणे य, एगंतदिदी य अमाइरूवे ॥६॥ ब्वाख्या-तथा यः कश्चित् साधुर्यद्यपि प्रत्युपेक्षणादिका क्रिया करोति तथापि युद्धप्रियः कश्चि[क्वचिद्भवति, तथाsन्याय्यभाष्य-स्थानभाषी गुर्वाद्यधिशेपकारी[वा], यश्चैवम्भूतो नासौ ' समो' रक्तद्विष्टतया मध्यस्थो भवति, नापि 'अझंझा. प्राप्तः' अकलहप्राप्तः, [ यदि वा] सम्यग्दृष्टिभिः समो न भवति । अत:-अक्रोधनेन अकर्कशभाषिणा उपशान्तयुद्धानुदीरकेण न्याय्यभाषिणा अझंझाप्राप्तेन मध्यस्थेन च माव्यमिति । एवं पूर्वोक्तदोषवर्जी सन्नुपपातकारी-आचार्यनिर्देशकारी, यथोपदेशं क्रियासु प्रवृत्तः सूत्रोपदेशप्रवर्चको वा, तथा ड्रीमनाः, 'ही' लज्जासंयमो मूलोत्तरगुणभेदभिन्नः, तत्र मनो यस्य स हीमनाः, [ यदि वा] अनाचारं कुर्वन् आचार्यादिभ्यो लज्जते, तथा 'एगंतदिट्ठी' एकान्तेन तत्त्वेषु जीवादिपदार्थेषु दृष्टि-
पशान्तकषायाणाम् ।
१४२॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372