SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ सूयगडा सूत्रं दीपिकान्वितम् । १३ याथातथ्याध्ययनेसंसार पर्यटनमनु ॥१४२॥ आत्मनो जयमिच्छतीत्यर्थः । तथा 'विओसियंति व्यवसितं-उपशान्तं कलहं-विवादं यः पुनरप्युदीरयेत्-प्रज्वालयेत् , | किमुक्तं भवति ? कलहकारिभिमिथ्यादुष्कृतादिना परस्परं शामितेऽपि तत्तद्व्यात् येन पुनरपि तेषां क्रोधोदयो भवति । साम्प्रतमेतद्विपाकं दर्शयति-यथा ह्यन्धः ' दण्डपथं' गोदण्डं [लघुमार्ग ] गृहीत्वा व्रजन् अज्ञानतया कण्टकश्वापदादिभिः पीड्यते, एवमसावपि केवललिङ्गधारी अनुपशान्तक्रोधः कर्कशभाषी अधिकरणोद्दीपकः अनुपशान्तद्वन्द्वः 'पापकर्मकारी' अनार्यकर्मकर्ता, एते सर्वेऽपि संसारे अनन्तशः [धृष्यन्ते-] पीड्यन्त इति गाथार्थः ॥ ५॥ किश्ान्यत् जे विग्गहीए अन्नायभासी, न से समे होति अझंझपत्ते।। ओवायकारी य हिरीमणे य, एगंतदिदी य अमाइरूवे ॥६॥ ब्वाख्या-तथा यः कश्चित् साधुर्यद्यपि प्रत्युपेक्षणादिका क्रिया करोति तथापि युद्धप्रियः कश्चि[क्वचिद्भवति, तथाsन्याय्यभाष्य-स्थानभाषी गुर्वाद्यधिशेपकारी[वा], यश्चैवम्भूतो नासौ ' समो' रक्तद्विष्टतया मध्यस्थो भवति, नापि 'अझंझा. प्राप्तः' अकलहप्राप्तः, [ यदि वा] सम्यग्दृष्टिभिः समो न भवति । अत:-अक्रोधनेन अकर्कशभाषिणा उपशान्तयुद्धानुदीरकेण न्याय्यभाषिणा अझंझाप्राप्तेन मध्यस्थेन च माव्यमिति । एवं पूर्वोक्तदोषवर्जी सन्नुपपातकारी-आचार्यनिर्देशकारी, यथोपदेशं क्रियासु प्रवृत्तः सूत्रोपदेशप्रवर्चको वा, तथा ड्रीमनाः, 'ही' लज्जासंयमो मूलोत्तरगुणभेदभिन्नः, तत्र मनो यस्य स हीमनाः, [ यदि वा] अनाचारं कुर्वन् आचार्यादिभ्यो लज्जते, तथा 'एगंतदिट्ठी' एकान्तेन तत्त्वेषु जीवादिपदार्थेषु दृष्टि- पशान्तकषायाणाम् । १४२॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy