SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Jain Education International " 'साधुमानिनः ' आत्मोत्कर्षात्सदनुष्ठानमानिनो मायान्विता 'एष्यन्ति' यास्यन्ति 'अनन्तशो' बहुशो 'घातं' विनाश संसारं वा अनवदग्रं अनुवर्त्तयिष्यन्तीति, दोषद्वयदुष्टत्वात्तेषां एकं तावत्स्वयं असाधवो द्वितीयं साधुमानिनः, उक्तं च – “पाव काण पुणो, अप्पाणं सुद्धमेव वाहरइ । दुगुणं करेड़ पावं, बीयं बालस्स मंदत्तं ॥ १ ॥ " तदेवमात्मोत्कर्षदोषात् बोधिलाभमप्युपहत्यानंतसंसारभाजो भवन्त्यसुमन्तः - प्राणिन इति स्थितमिति गाथार्थः ॥ ४ ॥ मानविपाकमुपदर्थ्याधुना क्रोधादिदोषमुद्भावयितुमाह जे कोहणे होति जगट्ठभासी, विओसियं जे उ उदीरएजा । अंधे व से दंडप गहाय, अविओसिए धासति पावकम्मी ॥ ५ ॥ व्याख्या—यः प्रकृतौ स्वभावेन क्रोधनो भवति तथा यश्च जगदर्थभाषी भवति, जगत्यर्था जगदर्थाः, ये यथा व्यवस्थिताः पदार्थाः ताँस्तथैव भाषते [य] स जगदर्थभाषीत्युच्यते । तद्यथा - ' ब्राह्मणं डोडमिति ब्रूयात् ' तथा ' वणिजं किराट ' मिति 'शूद्रं आभीर 'मिति ' श्वपाकं चाण्डाल' मिति, तथा ' काणं काण 'मिति, तथा ' खंजं कुब्जं वडभं, कुष्ठिनं क्षयिण 'मित्यादि, तथा यो यस्य दोषस्तं तेन खरं परुषतरं ब्रूयात् यः स जगदर्थभाषीति । अथवा जयाभाषी - यथैवात्मनो जयो भवति तथैव अविद्यमानमप्यर्थं भाषते येन केनचित् प्रकारेण असत्प्ररूपणयाऽपि १ पापं कृत्वा पुनरात्मानं शुद्धमेव व्याहरति । द्विगुणं करोति पापं द्वितीयं बालस्य मन्दत्वम् ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy