Book Title: Suyagadanga Sutram Part_1
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥१३२॥
Jain Education
मतयस्ते वैनयिका अज्ञानाच्छादिता इति 'उदाहुः' कथयन्ति । यथा ' स्वोऽर्थः ' स्वर्गमोक्षादिकः सर्वोऽपि सर्वस्य विनयप्रतिपच्या अस्माकमवभासते - आविर्भवति, प्राप्यते, अस्माकं मते सर्वोऽप्यर्थो विनयप्रतिपच्या सिद्ध्यतीति ( प्रत्युत्तरं दीयते ) भावः, इति विनयवादिमतं । तत्र प्रतिविधीयते - नैकस्माद्विनयादर्थसिद्धिः, किन्तु सम्यग्दर्शनादिसम्भवे सति विनयस्य कल्याणभावत्वं भवति, नैककस्येति, तद्रहितो हि विनयोपेतः सर्वस्य प्रहृतया न्यत्कार + मवाप्नोति । ततच विवक्षितार्थावभासनाभावात्तेषामेव वादिनामज्ञानानृतत्वमेवावशिष्यते, नाभिप्रेतार्थावाप्तिरिति । उक्ता वैनयिकाः, साम्प्रतमक्रियावादिदर्शनं निराचिकीर्षुर्गाथापश्चार्द्धमाह-'लवावसंकी 'त्यादि, 'लवं ' कर्म, तस्मादपशङ्कि [तुं - अपसत्तुं शीलं येषां ते लवापशङ्कि]नो लोकायतिकाः शाक्यादयश्च सर्वेऽप्यक्रियावादिनः क्रियां न मन्यन्ते, क्षणिकत्वात्सर्वपदार्थानां, "क्षणिकाः सर्वसंस्काराः " इति वचनात् यत्किञ्चिस्क्रियते तत्सर्वमनागतमेवोच्यत इत्यक्रियत्वं क्रियां विना कर्मबंधोऽपि नास्ति, एवं ते अक्रियावादिन उच्यन्त इति गाथार्थः ॥ ४ ॥
सम्मिस्स भावं सगिरा गहीए, से मुम्मुई होति अणाणुवादी ।
66
+ “ न्यक्कारस्तु तिरस्क्रिया " इति हैमः श्लो. ४४१ । “ तिरस्कारे परीभावः, परापर्यभितो भवः ॥ ६८ ॥ न्यक्कारः सनिकारः स्यात् ” इति शब्दरत्नाकरः कांड ३ । “ न्यग् निम्ने नीचकात्स्ययोः " इत्यनेकार्थः १-७ । इत्यादिप्रामाण्यतो ' न्यक्कार' एव समीचीनमाभाति परं न ज्ञायते केन हेतुना सर्वेष्वप्यादर्शेषु ' म्यत्कार ' एवोपलभ्यते ।
For Private & Personal Use Only
१२ सम
यसरणाseeds
क्रिया
वादिनः
शाक्या
दयः ।
॥१३२॥
www.jainelibrary.org

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372