SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्गसूत्रं दीपिकान्वितम् । ॥१३२॥ Jain Education मतयस्ते वैनयिका अज्ञानाच्छादिता इति 'उदाहुः' कथयन्ति । यथा ' स्वोऽर्थः ' स्वर्गमोक्षादिकः सर्वोऽपि सर्वस्य विनयप्रतिपच्या अस्माकमवभासते - आविर्भवति, प्राप्यते, अस्माकं मते सर्वोऽप्यर्थो विनयप्रतिपच्या सिद्ध्यतीति ( प्रत्युत्तरं दीयते ) भावः, इति विनयवादिमतं । तत्र प्रतिविधीयते - नैकस्माद्विनयादर्थसिद्धिः, किन्तु सम्यग्दर्शनादिसम्भवे सति विनयस्य कल्याणभावत्वं भवति, नैककस्येति, तद्रहितो हि विनयोपेतः सर्वस्य प्रहृतया न्यत्कार + मवाप्नोति । ततच विवक्षितार्थावभासनाभावात्तेषामेव वादिनामज्ञानानृतत्वमेवावशिष्यते, नाभिप्रेतार्थावाप्तिरिति । उक्ता वैनयिकाः, साम्प्रतमक्रियावादिदर्शनं निराचिकीर्षुर्गाथापश्चार्द्धमाह-'लवावसंकी 'त्यादि, 'लवं ' कर्म, तस्मादपशङ्कि [तुं - अपसत्तुं शीलं येषां ते लवापशङ्कि]नो लोकायतिकाः शाक्यादयश्च सर्वेऽप्यक्रियावादिनः क्रियां न मन्यन्ते, क्षणिकत्वात्सर्वपदार्थानां, "क्षणिकाः सर्वसंस्काराः " इति वचनात् यत्किञ्चिस्क्रियते तत्सर्वमनागतमेवोच्यत इत्यक्रियत्वं क्रियां विना कर्मबंधोऽपि नास्ति, एवं ते अक्रियावादिन उच्यन्त इति गाथार्थः ॥ ४ ॥ सम्मिस्स भावं सगिरा गहीए, से मुम्मुई होति अणाणुवादी । 66 + “ न्यक्कारस्तु तिरस्क्रिया " इति हैमः श्लो. ४४१ । “ तिरस्कारे परीभावः, परापर्यभितो भवः ॥ ६८ ॥ न्यक्कारः सनिकारः स्यात् ” इति शब्दरत्नाकरः कांड ३ । “ न्यग् निम्ने नीचकात्स्ययोः " इत्यनेकार्थः १-७ । इत्यादिप्रामाण्यतो ' न्यक्कार' एव समीचीनमाभाति परं न ज्ञायते केन हेतुना सर्वेष्वप्यादर्शेषु ' म्यत्कार ' एवोपलभ्यते । For Private & Personal Use Only १२ सम यसरणाseeds क्रिया वादिनः शाक्या दयः । ॥१३२॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy