________________
इमं दुपक्खं इममेगपक्खं, आहंस छलायतणं च कम्मं ॥५॥ व्याख्या ते लोकायतिकाः 'स्वगिरा' स्ववाचैव गृहीता [सं]मिश्रभावं भजन्ते, एतावता स्ववाचैव बद्धाः, यस्यैव पदार्थस्यास्तित्वं तस्यैव नास्तित्वं प्रतिपादयन्ति, यस्यैव नास्तित्वं प्रतिपादयन्ति तस्यैवास्तित्वं प्रतिपादयन्ति, एवं मिश्रीभावं भजन्ते । यदि ते जीवादिपदार्थस्य सर्वस्याप्यभावं मन्यन्ते तात्मन एवाभावं प्रतिपद्यन्ते, तथा शिष्यस्य शास्त्रस्य चामावं प्रतिपद्यन्ते । यदि सर्वशून्यता तर्हि कः कस्योपकुरुते ? सर्वाभावप्रसङ्गात् , आत्मनः शिष्याणां शास्त्रस्य चाभावो जायते । एवं ते सर्वाभावप्रतिपादनात् असम्बद्धप्रलापिनः सन्तः मिश्रीमावं स्ववाचैव प्रतिपद्यन्ते । तथा सांख्या अध्यात्मनः सर्वव्यापित्वं मन्यन्ते अक्रियत्वं च, एवं साङ्ख्या अप्यसमञ्जसभाषिणः, यतस्तेऽप्यक्रियमात्मानमभ्युपगच्छन्तो बन्धमोक्षसद्भावं च स्वाभ्युपगमेनैव सम्मिश्रीभावं व्रजन्ति । यतः साँख्यानां प्रकृतिवियोगे मोक्षः, यद्येवं तदा बन्धं विना न मोक्षः, पूर्व कर्मणां बन्धस्ततो मोक्षः, कर्मबन्धस्तु क्रियां विना न स्यात्त. न्मोक्षोऽपि क्रियां विना न स्यात् । एतावता आत्माऽपि सक्रियः, एवमात्मनः सक्रियत्वं स्ववाचैव प्रतिपन्नं सांख्यरेवं स्ववचनेनैवात्मनोऽक्रियत्वं व्यवस्थाप्य पुनर्बन्धमोक्षप्ररूपणया चात्मनि सक्रियत्वं प्रतिपन्नं, एवं मिश्रीमावं साँख्यानामप्यायातम् । सर्वदर्शनिनामपि ज्ञेयमिति । एतद्वर्णिकामानं दर्शितमस्ति । अपरं टीकातोऽवगन्तव्यमिति । एवं सर्वोऽपि | परवादिसमूहः स्याद्वादिना हेतु दृष्टान्ताकुली क्रियमाणः सन् सम्यगुत्तरं दातुमसमर्थों यत्किञ्चनभाषितया “मुम्मुई
Jain Educati
o
nal
For Privale & Personal use only
www.jainelibrary.org