________________
सच्चं असञ्चं इति चिंतयंता, असाहु साहुत्ति उदाहरंता ।
जेमे जणा वेणइया अणेगे, पुठा वि भावं विणइंसु णाम ॥ ३ ॥ व्याख्या-'सत्य' संयमस्तदसत्यमित्येवं चिन्तयन्तोऽसत्यं सत्यमिति मन्यमानाः। एतावता सत्यमसत्यमिति असत्यं च सत्यमिति, विनयादेव मोक्ष इत्येतदसत्यमपि सत्यतया मन्यमानाः, तथा असाधुमपि वन्दनादिकया विनयप्रतिपश्या साधुमित्येवमुदाहरन्त:-प्रतिपादयन्तो न सम्यग्यथाऽवस्थितधर्मस्य परीक्षकाः, कथं ? यतस्ते विनयादेव धर्म इत्येवं युक्तिविकलं भाषन्ते, के एते एवं भाषन्ते' इत्याह-'जेमे जणा वेणइया अणेगे'ये इमेजना इव-प्राकृतपुरुषा इव, यथा प्राकृतपुरुषा:-पामराः विनयादेव केवलात्स्वर्गमोक्षवाप्तिरित्येवं भाषन्ते, गुणागुणविशेषो नापरो मोक्षकारण, विनयस्यैव प्राधान्यं । एवंविधा विनयवादिनः कियन्तः ? ' अणेगे' अनेके, द्वात्रिंशद्भेदभिन्नत्वात्-बहवः, 'पुट्ठा वि' ते विनयवादिनः पृष्टा अपि परैविनयादेव मोक्षावाप्तिरित्येवं व्यनैषु-विनीतवन्तः। 'नाम' इति सम्भावनायां । सर्वदा सर्वस्य सिद्धये विनयं ग्राहितवन्तः, "तस्मात् कल्याणानां सर्वेषां भाजनं विनय" इति वचनादिति गाथार्थः ॥३॥ किञ्च
अणोवसंखा इति ते उदाहु, अढे स ओभासति अम्ह एवं।
लवावसंकी य अणागएहि, णो किरियमाहंसु अकिरियवादी ॥ ४ ॥ व्याख्या--सम्यग् यथावस्थितार्थपरिज्ञान-उपसंख्या, न उपसंख्या ' अनुपसंख्या' अपरिज्ञानं, तेन व्यामृढ
Jain Education intamational
For Privale & Personal use only
www.jainelibrary.org