SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ १२ समवसरणाध्ययनेज्ञानवादिनः। सूयगडाग अन्नाणिया ता कुसलावि संता, असंथुया नो वितिगिच्छतिन्ना। सत्रं अकोविया आहु अकोवियेहि, अण्णाणुवाई य मुसं वयंति ॥ २ ॥ दीपिकान्वितम् । व्याख्या-अज्ञानिकास्तावद्वदन्ति-वयमेव 'कुशलाः' निपुणाः, नाऽन्ये, एवं वदन्तोऽपि ते ' असंथुया' इति असंस्तुताः, अज्ञानमेव श्रेय इत्येवंवादितया असम्बद्धाः, असंस्तुतत्वाद्विचिकित्सां-चित्तभ्रान्ति 'न तीः' नातिक्रान्ता:, ॥१३॥17 चित्तभ्रान्तिस्तेषां न सम्यगपगताx, अतस्तेऽज्ञानवादिन: स्वयं 'अकोविदाः' धर्मोपदेशं प्रति अनिपुणाः, ततोऽकोविदेभ्य एव स्वशिष्येभ्यः 'आहुः' कथितवन्तः, यथा-अज्ञानमेव श्रेयः इत्यादि प्ररूपयन्ति । ते शिष्या अपि तदेव मन्यन्ते, | मुर्खत्वात् "सरिसा सरिसेसुरचंति" इति वचनात् । एवं ते अपर्यालोच्यवादिनो मृषाभाषिणो ज्ञेया इति गाथार्थः ॥२॥ | साम्प्रतं विनयवादं निराचिकीर्षुः प्रक्रमते| - " तथाहि केचित्सर्वज्ञ मन्यन्ते केचित्तं निषेधयन्ति, एके सर्वगमात्मानं वदन्ति अन्ये देहमान, अपरेऽङ्गुष्ठपर्वमानं केचन श्यामाकतन्दुलमात्रं, अन्ये मूर्तममूर्त हृदयमध्यवर्तिनं ललाटस्थितं इत्यादि, एषामेकवाक्यता कथं स्यात् :, न चातिशयज्ञानी कश्चिदस्ति यद्वाक्यं प्रमाणी क्रियते, तथा ज्ञानवतां प्रमादो बहुदोषः, ततो वरमज्ञानमेवेति वदन्तश्चित्तभ्रान्ति नातिक्रान्ताः" इति हर्ष । १ सदृशाः सदृशेषु रज्यन्ते । ॥१३१॥ Jain Education For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy