Book Title: Suyagadanga Sutram Part_1
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
VI (या हि )सर्वशून्यताप्ररूपणा सा तु वृथैव, सर्वाभावे कः कस्याग्रे प्रतिपादयति ? कथकोऽपि नास्ति श्रोताऽपि नास्ति ।
स्वमादिकमपि कः पश्यति ? सर्वशून्यत्वात् । तथा यः सर्वशून्यवादी तस्याप्य भावः स्यात् , तस्माद्यत्किञ्चिदेतदिति । तदेवं विद्यमानायां क्रियायां निरुद्धप्रज्ञास्तीर्थिका अक्रियावादमाश्रिताः । अनिरुद्धप्रज्ञास्तु यथावस्थितार्थवेदिनो भवन्ति, | तथाहि-अवधिमनःपर्याय केवलज्ञानिनत्रैलोक्योदरविवरवर्तिनः पदार्थान् करतलामल कन्यायेन पश्यन्ति,समस्तश्रुतज्ञानिनोऽपि
आगमबलेनातीतानागतानर्थान् विदन्ति, येऽप्यन्येऽष्टाङ्गनिमित्तपारगास्तेऽपि निमित्तवलेन जीवादिपदार्थपरिच्छेद विदधतीति गाथार्थः ॥ ८ ॥ तदेवाह
संवच्छरं सुविणं लक्खणं च, निमित्तदेहं च उप्पाइयं च ।
अट्रंगमेतं बहवे अहित्ता. लोगसि जाणंति अणागताई॥९॥ व्याख्या-'संवच्छरं' (नाम ) ज्योतिष 'सुविणं' स्वप्नप्रतिपादको ग्रन्थः 'लक्षणं' सामुद्रिकादि ['निमित्तं' वाक्प्रशस्तशकुनादिकं] 'देह' मष तिलकादि 'औत्पातिकं' उल्कापातदिगदाहनिर्धातभूमिकम्पादिकं, अष्टाङ्गनिमित्तं चाधीत्य लोके अतीतानि वस्तून्यनागतानि च जानन्ति, न च शून्यादिवादेष्वेतत् घटते, तस्माच्छून्यवादिनामक्रियावादिनां च युक्तयो निरर्थकाः॥९॥
अत्राह पर:-ननु श्रुतज्ञानमपि व्यभिचरति, अष्टाङ्गनिमित्तान्यपि व्यभिचारीणि, अत इदमाह---
Jain Education inte
For Privale & Personal use only
Irow.jainelibrary.org

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372