SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ VI (या हि )सर्वशून्यताप्ररूपणा सा तु वृथैव, सर्वाभावे कः कस्याग्रे प्रतिपादयति ? कथकोऽपि नास्ति श्रोताऽपि नास्ति । स्वमादिकमपि कः पश्यति ? सर्वशून्यत्वात् । तथा यः सर्वशून्यवादी तस्याप्य भावः स्यात् , तस्माद्यत्किञ्चिदेतदिति । तदेवं विद्यमानायां क्रियायां निरुद्धप्रज्ञास्तीर्थिका अक्रियावादमाश्रिताः । अनिरुद्धप्रज्ञास्तु यथावस्थितार्थवेदिनो भवन्ति, | तथाहि-अवधिमनःपर्याय केवलज्ञानिनत्रैलोक्योदरविवरवर्तिनः पदार्थान् करतलामल कन्यायेन पश्यन्ति,समस्तश्रुतज्ञानिनोऽपि आगमबलेनातीतानागतानर्थान् विदन्ति, येऽप्यन्येऽष्टाङ्गनिमित्तपारगास्तेऽपि निमित्तवलेन जीवादिपदार्थपरिच्छेद विदधतीति गाथार्थः ॥ ८ ॥ तदेवाह संवच्छरं सुविणं लक्खणं च, निमित्तदेहं च उप्पाइयं च । अट्रंगमेतं बहवे अहित्ता. लोगसि जाणंति अणागताई॥९॥ व्याख्या-'संवच्छरं' (नाम ) ज्योतिष 'सुविणं' स्वप्नप्रतिपादको ग्रन्थः 'लक्षणं' सामुद्रिकादि ['निमित्तं' वाक्प्रशस्तशकुनादिकं] 'देह' मष तिलकादि 'औत्पातिकं' उल्कापातदिगदाहनिर्धातभूमिकम्पादिकं, अष्टाङ्गनिमित्तं चाधीत्य लोके अतीतानि वस्तून्यनागतानि च जानन्ति, न च शून्यादिवादेष्वेतत् घटते, तस्माच्छून्यवादिनामक्रियावादिनां च युक्तयो निरर्थकाः॥९॥ अत्राह पर:-ननु श्रुतज्ञानमपि व्यभिचरति, अष्टाङ्गनिमित्तान्यपि व्यभिचारीणि, अत इदमाह--- Jain Education inte For Privale & Personal use only Irow.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy