Book Title: Suyagadanga Sutram Part_1
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 307
________________ इमं दुपक्खं इममेगपक्खं, आहंस छलायतणं च कम्मं ॥५॥ व्याख्या ते लोकायतिकाः 'स्वगिरा' स्ववाचैव गृहीता [सं]मिश्रभावं भजन्ते, एतावता स्ववाचैव बद्धाः, यस्यैव पदार्थस्यास्तित्वं तस्यैव नास्तित्वं प्रतिपादयन्ति, यस्यैव नास्तित्वं प्रतिपादयन्ति तस्यैवास्तित्वं प्रतिपादयन्ति, एवं मिश्रीभावं भजन्ते । यदि ते जीवादिपदार्थस्य सर्वस्याप्यभावं मन्यन्ते तात्मन एवाभावं प्रतिपद्यन्ते, तथा शिष्यस्य शास्त्रस्य चामावं प्रतिपद्यन्ते । यदि सर्वशून्यता तर्हि कः कस्योपकुरुते ? सर्वाभावप्रसङ्गात् , आत्मनः शिष्याणां शास्त्रस्य चाभावो जायते । एवं ते सर्वाभावप्रतिपादनात् असम्बद्धप्रलापिनः सन्तः मिश्रीमावं स्ववाचैव प्रतिपद्यन्ते । तथा सांख्या अध्यात्मनः सर्वव्यापित्वं मन्यन्ते अक्रियत्वं च, एवं साङ्ख्या अप्यसमञ्जसभाषिणः, यतस्तेऽप्यक्रियमात्मानमभ्युपगच्छन्तो बन्धमोक्षसद्भावं च स्वाभ्युपगमेनैव सम्मिश्रीभावं व्रजन्ति । यतः साँख्यानां प्रकृतिवियोगे मोक्षः, यद्येवं तदा बन्धं विना न मोक्षः, पूर्व कर्मणां बन्धस्ततो मोक्षः, कर्मबन्धस्तु क्रियां विना न स्यात्त. न्मोक्षोऽपि क्रियां विना न स्यात् । एतावता आत्माऽपि सक्रियः, एवमात्मनः सक्रियत्वं स्ववाचैव प्रतिपन्नं सांख्यरेवं स्ववचनेनैवात्मनोऽक्रियत्वं व्यवस्थाप्य पुनर्बन्धमोक्षप्ररूपणया चात्मनि सक्रियत्वं प्रतिपन्नं, एवं मिश्रीमावं साँख्यानामप्यायातम् । सर्वदर्शनिनामपि ज्ञेयमिति । एतद्वर्णिकामानं दर्शितमस्ति । अपरं टीकातोऽवगन्तव्यमिति । एवं सर्वोऽपि | परवादिसमूहः स्याद्वादिना हेतु दृष्टान्ताकुली क्रियमाणः सन् सम्यगुत्तरं दातुमसमर्थों यत्किञ्चनभाषितया “मुम्मुई Jain Educati o nal For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372