Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वासनमन्त्रेणैव मुक्ताशुत्या बिम्बे पञ्चाङ्गस्पर्श:-मस्तक १ खांध २ जानु २ वार ७, चक्रमुद्रया वा, धूपश्च निरन्तर दातव्यः, परमोष्ठमुद्रां सूरिः करोति, पुनरपि जिनाबाननं, ततो निषद्यायामुपविश्य नन्दावत्तं मध्यात्प्रभति पूजयेत्, सदशाद्यङ्गवस्त्रेण तमाच्छादयेत्, तदुपरि नालिकेरप्रदान कार्य, तदुपरि प्रतिष्ठाप्यबिम्बस्थापन, चलेप्रतिष्ठाख्याप. नाय विचित्रबलिविधानं, यथा जम्बीरबीजपूरकनालिकेरपनसाम्रदाडिमादिप्रशस्तफलकन्दमूलढौकनं, ततश्चतुःकोणेष वेदिकायाः पूर्वन्यस्तायाश्चतुस्तन्तुवेष्टनं चतुर्दिशां श्वेतवारकोपरि गोधूमव्रीहियवानां यववारकाः स्थाप्याः, बाटुखीरिकरम्बककीसरकूरुससिद्धविडिपूयली इति सप्त बलिशरावाणि दीयन्ते. पुनस्तन्तुसहितसहिरण्यचन्दनचर्चितकलशा-1 श्चत्वारः प्रतिमानिकटे स्थाप्यन्ते, घृतगुडसमेतमङ्गलप्रदीप ४ स्वस्तिकपदृस्य चतसृष्वपि दिक्षु सकपर्दकसहिरण्यस. जलसधान्यचतुर्वारकस्थापनं, तेषु च सुकुमालिकाकङ्कणानि करणीयानि यवधाराश्च स्थाप्याः, पूर्णचतुःसूत्रेण वेष्टनं वारकाणां ततः शक्रस्तवेन चैत्यवन्दनं कृत्वाऽधिवासनालग्नसमये पुष्पसमेतऋद्धिवृद्धियुतमदनफलारोपणपूर्वक चन्दनयुक्तेन पुष्पवासधूपप्रत्यग्राभिवासितेन वस्त्रेण वदनाच्छादनं माइसाडी चारोप्यते, तदुपरि चन्दनच्छटा सरिणा
१ बृहाद्विम्बस्याधो वलकवियुक्तोऽपि नन्दावर्तः स्थाप्यते इति कस्यचिदाशयः ( ता. टी.)
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104