Book Title: Shivsutra Varttikam
Author(s): Varadraja, Madhusudan Kaul
Publisher: Research Department Jammu & Kashmir Srinagar

View full book text
Previous | Next

Page 21
________________ वरदराजविरचितम् । योऽयं विमर्शरूपायाः प्रसरन्त्याः खसंविदः । झटित्युच्छलनाकारप्रतिभोन्मजनात्मकः ॥ ३३ ।। उद्यमोऽन्तःपरिस्पन्दः पूर्णाहम्भावनात्मकः । स एव सर्वशक्तीनां सामरस्यादशेषतः ॥ ३४ ॥ विश्वतो भरितत्वेन विकल्पानां विभेदिनाम् । अलं कवलनेनापीत्यन्वर्थादेव भैरवः ॥ ३५ ॥ ५ ॥ अथेग्भैरवापत्तेर्बन्धप्रशमकारणात् । व्युत्थानं च भवेच्छान्तभेदाभासमितीर्यते ॥ ३६ ।। शक्तिचक्रसन्धाने विश्वसंहारः ॥ ६॥ योज्यमुक्तः स्वसंवित्तेरुद्यमो भैरवात्मकः । अस्यास्ति महती शकिरतिक्रान्तक्रमाक्रमा ।। ३७ ।। निःशेषनिजचिच्छक्तिचक्राक्रमणलम्पटा । रिक्तारितोभयाकाराप्यनेतद्रूपिणी परा ॥ ३८ ॥ ययैव स्वात्मचिद्भित्तौ प्रमेयोल्लासनादितः । परप्रमाविश्रान्तिपर्यन्तस्पन्दरूपया ॥ ३९ ॥ सृष्टिस्थितिलयानाख्याभासाशक्तिप्रसारणात् । प्रपञ्चविषयं चश्चत्पश्चकूत्यं प्रपंचितम् ॥ ४० ॥ तया प्रसारितस्यास्य शक्तिचक्रस्य यत्पुनः । सन्धानमान्तराम्नायाम्नातक्रमविमर्शनम् ॥ ४१ ।। तसिन्सत्यस्य विश्वस्य कालाग्यादिकलावधेः । संहारः स्यात्स्वसंवित्तिवह्निसद्भावलक्षणः॥ ४२ ॥६॥ एवं खसंवित्कालाग्निप्लुष्टभेदस्य योगिनः ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63