Book Title: Shivsutra Varttikam
Author(s): Varadraja, Madhusudan Kaul
Publisher: Research Department Jammu & Kashmir Srinagar

View full book text
Previous | Next

Page 42
________________ [३७० शिवसूत्रवार्तिकम् । तथाभूतो भवत्येष स्वकरीभूतविष्टपः ॥ ८ ॥ ईदृशोऽयं सदा खात्मविमर्शावेशिताशयः ॥ ४४ ॥ नर्तक आत्मा ॥६॥ नृत्यत्यन्तःपरिच्छन्नस्वस्वरूपावलम्बनाः । खेच्छया स्वात्मचिद्भित्तौ स्वपरिस्पंदलीलया ॥ ४५ ॥ जागरास्वमसौषुप्तरूपास्तास्ताः स्वभूमिकाः । आभासयति यत्तसादात्मा नर्तक उच्यते ॥४६॥६॥ एवंविधजगमाव्यनर्तकस्यास्स योगिनः । भूमिकाग्रहणस्थानं रङ्गमाह जगद्गुरुः ॥ ४७ ॥ रङ्गोऽन्तरात्मा ॥१०॥ रज्यतेऽसिन् जगन्नाव्यक्रीडाकौतुकिनात्मना । इति रङ्गोऽन्तरात्मेति जीवः पुर्यष्टकात्मकः ॥ ४८ ॥ योगी कृतपदस्तत्र खेन्द्रियस्पन्दलीलया । सदाशिवादिक्षित्यन्तजगन्नाव्यं प्रकाशयेत् ॥ ४६॥१०॥ देहान्तरङ्गे रङ्गेऽस्मिन्नृत्यतः वान्तरात्मनि । - प्रेक्षकाणीन्द्रियाणि ॥११॥

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63