________________
[३७०
शिवसूत्रवार्तिकम् । तथाभूतो भवत्येष स्वकरीभूतविष्टपः ॥ ८ ॥
ईदृशोऽयं सदा खात्मविमर्शावेशिताशयः ॥ ४४ ॥
नर्तक आत्मा ॥६॥
नृत्यत्यन्तःपरिच्छन्नस्वस्वरूपावलम्बनाः । खेच्छया स्वात्मचिद्भित्तौ स्वपरिस्पंदलीलया ॥ ४५ ॥ जागरास्वमसौषुप्तरूपास्तास्ताः स्वभूमिकाः । आभासयति यत्तसादात्मा नर्तक उच्यते ॥४६॥६॥
एवंविधजगमाव्यनर्तकस्यास्स योगिनः । भूमिकाग्रहणस्थानं रङ्गमाह जगद्गुरुः ॥ ४७ ॥
रङ्गोऽन्तरात्मा ॥१०॥ रज्यतेऽसिन् जगन्नाव्यक्रीडाकौतुकिनात्मना । इति रङ्गोऽन्तरात्मेति जीवः पुर्यष्टकात्मकः ॥ ४८ ॥ योगी कृतपदस्तत्र खेन्द्रियस्पन्दलीलया । सदाशिवादिक्षित्यन्तजगन्नाव्यं प्रकाशयेत् ॥ ४६॥१०॥
देहान्तरङ्गे रङ्गेऽस्मिन्नृत्यतः वान्तरात्मनि ।
- प्रेक्षकाणीन्द्रियाणि ॥११॥