________________
वरदराजविरचितम् । धीगुणान्समतिक्रम्य निध्येयं चाव्ययं विभुम् । ध्याला ध्येयं स्वसंवेद्यं ध्यानं तच्च विदुर्बुधाः ॥३५॥ धारणा परमात्मवं धार्यते येन सर्वदा । धारणा सा विनिर्दिष्टा भवबन्धविनाशिनी ॥ ३६ ॥ स्वपरस्थेषु भूतेषु जगत्यसिन्समानधीः । शिवोऽहमद्वितीयोऽहं समाधिः स परः स्मृतः॥३७॥ इत्येवं मृत्युजित्तत्रभट्टारकनिरूपितैः । प्राणसंयमनारम्भैः समाध्यन्तैः क्रमैरपि ॥ ३८ ॥ परतत्त्वसमावेशो भवत्येवेति कथ्यते । मोहजयादनन्ताभोगात्सहजविद्याजयः॥७॥ मोहो माया निजाख्यातिस्तजयात्तत्पराभवात् ॥ ३९ ॥ उद्यमार्कोत्थितोऽनन्तः संस्कारप्रशमावधिः । आभोगो यस्य विस्तार ईदृशादर्शितात्मनः ॥ ४० ॥ भवेत्सहजविद्याया जयो लाभोऽस्य योगिनः ॥ ७ ॥
एवं मोहजयोपात्तशुद्धविद्यामहोदयः ॥ ४१ ॥
जाग्रहितीयकरः ॥८॥ भक्त्वैवं सहजां विद्यां तदेकवावलम्बने । बागरूकः सदा योगी जाग्रदित्ययमुच्यते ॥ ४२ ।। संपूर्णाहविमर्शात्मस्खाहन्तापेक्षया जगत् । द्वितीयमिदमाकारं करो यस्य वदीधितिः ॥ ४३ ॥