________________
शिवसूत्रवार्तिकम् । भूतेभ्यः किल कैवल्यं चित्तप्रत्याहृतिस्ततः ।। २५ ।। पृथक्त्वं तदनालिप्तस्वच्छस्वात्मैकरूपता । 'भूतसन्धान' इत्यादिसूत्रोक्तं यत्फलं पुरा ॥ २६ ॥ अप्रयत्नेन साध्यं तच्छाम्भवोपायशालिनः । आणवोपायसाध्यं तु यनेनेति विशिष्यते ॥२७॥५॥
इत्येवं देहशुयाद्यैः समाध्यन्तैश्च या भवेत् । सिद्धिः सा मोहवरणान्नात्मज्ञानादितीर्यते ॥ २८ ॥
मोहावरणात्सिद्धिः॥६॥ मोहो विमोहिनी माया तत्कृतावरणात्किल । पूर्वोक्तधारणायुक्त्या सिद्धिः परिमिता भवेत् ॥ २६ ॥ तत्तत्तत्त्वोपभोगात्मा नवस्य परचित्प्रथा ॥ ६ ॥
विनष्टमोहावेशस्य समाधौ चाग्रतः पुनः ॥ ३० ॥ 'मध्यमं प्राणमाश्रित्य प्राणापानपथान्तरम् ।
आलम्ब्य ज्ञानशक्तिं च तत्स्थं चैवासनं लभेत् ॥ ३१ ।। प्राणादिस्थूलभावं तु त्यक्त्वा सूक्ष्ममथान्तरम् । सूक्ष्मातीतं तु परमं स्पन्दनं लभ्यते यतः ॥ ३२ ॥ प्राणायामः स उद्दिष्टो यस्मान्न च्यवते पुनः । शब्दादिगुणवृत्तियो चेतसा ह्यनुभूयते ॥ ३३ ॥ त्यक्त्वा तां परमं धाम प्रविशेत्तत्वचेतसा । प्रत्याहार इति प्रोक्को भवपाशनिकृन्तनः ॥ ३४ ॥