________________
वरदराजविरचितम् ।
AD
शरीरे संहारः कलानाम् ॥ ४॥ महाभूतात्मके स्थूले सूक्ष्मे पुर्यष्टकात्मनि । मूलादिसमनान्ते च शरीरे योगिनः परे ॥ १७ ॥ कलानां तत्र भागानां कार्याणां कारणे निजे । संहारः संविदेकानिसद्भावो लयचिन्तया ॥ १८ ॥ दाहाद्यामर्शयुक्त्या वा ध्यातव्य इति शिष्यते ॥ ४ ॥
एवं ध्यानाभिधानो यः संहारोपाय ईरितः ॥ १६ ॥ एवमेतत्प्रधानांश्च प्राणायामपुरःसरान् । अन्यान्समाधिपर्यन्तानुपायान्दर्शयत्यसौ ॥ २० ॥ नाडीसंहार-भूतजय-भूतकैवल्य
भूतपृथक्त्वानि ॥ ५॥ भावनीयानि युक्तेन साधकेनेति शिष्यते । प्राणादिवाहिनाडीनां संहारः प्राणसंयमात् ॥ २१ ॥ रेचकादिक्रमोत्पादादुदानदहनात्मनि । मध्यनाड्यां विलीनखापादनं तन्मयत्वतः ॥ २२ ॥ भूतानां भूजलादीनां जयो यः स उदीयते । 'वायवी धारणाङ्गुष्ठे आग्नेयी नाभिमध्यतः ॥ २३ ॥ माहेयी कण्ठदेशे तु वारुणी घण्टिकाश्रिता । आकाशधारणा मूर्ध्नि सर्वसिद्धिकरी स्मृता ॥ २४ ॥ इति स्वच्छन्दशास्त्रोक्नधारणाभिर्वशीकृतिः ।