________________
शिवसूत्रवार्तिकम् । ३०
ज्ञानं बन्धः ॥२॥ अन्तः सुखादिसंवेद्यव्यवसायादिवृत्तिमत् ॥ ८ ॥ बहिस्तद्योग्यनीलादिदेहादिविषयोन्मुखम् । भेदाभासात्मकं चास्य ज्ञानं बन्धोऽणुरूपिणः ॥ ६ ॥ तत्पाशितखादेवासावणुः संसरति ध्रुवम् ॥ २ ॥
'ज्ञानं प्रकाशकं लोके आत्मा चैव प्रकाशकः ॥ १० ॥ अनयोरपृथग्भावाज्ज्ञानी ज्ञाने प्रकाशते ।' इत्युक्तनीत्या ज्ञानं च स्वस्वरूपप्रकाशकम् ॥ ११ ॥ आत्मवत्तत्कथं तस्य बन्धकखप्रसङ्गिता । इत्याशङ्कयाह यद्येवं प्रसन्नात्परमेश्वरात् ॥ १२ ॥ प्रत्यभिज्ञा भवत्येषा तदा सत्यं वदीरितम् । तन्मायाशक्तितो नैष विमर्शोऽस्य यदा, तदा ॥ १३ ॥ कलादीनां तत्त्वानामविवेको माया ॥३॥
अन्तरन्तःस्फुरत्किचित्कर्तृवादिप्रदायिनाम् । कलादिक्षितिपर्यन्ततत्त्वानां कञ्चुकात्मनाम् ॥ १४ ॥ पुर्यष्टकमयखेन स्थूलदेहादिरूपतः । स्थितानामविवेकस्तेष्वात्मनानुसंहितिः ॥ १५ ॥ सैव संमोहिनी माया तत्त्वाख्यातिमयं जगत् ॥ ३ ॥
-
अतश्चैतजन्यमायाप्रशमायास्य योगिनः ॥ १६ ॥