________________
वरदराजविरचितम् । प्रक्षकाणीति संसारनाट्यप्राकट्यकृद्वपुः ॥ ५० ॥ चक्षुरादीन्द्रियाण्यन्तश्चमत्कुर्वन्ति योगिनः ॥ ११ ॥
इत्येवं प्रेक्षकीभूतखाक्षचक्रस्य योगिनः ॥ ५१ ॥
धीवशात्सत्त्वसिद्धिः ॥ १२॥ धीस्तात्त्विकस्वचिद्रूपविमर्शकुशला मतिः । तद्वशादेव सत्त्वस्य स्पन्दस्यान्तर्विवर्तिनः ॥ ५२ ॥ स्फुरत्तारूपिणः सिद्धिरभिव्यक्तिः स्फुटं भवेत् ॥१२॥
एवं निजस्फुरत्तात्मसत्त्वासादनवैभवात् ॥ ५३ ॥
सिद्धः स्वतन्त्रभावः ॥ १३॥
सिद्धः संपन्न एवास्स भवेत्परमयोगिनः । खतत्रभाव: सहजज्ञखकखलक्षणः ॥ ५४ ॥ खातन्त्र्यं वशिनो विश्वस्त्रवशीकरणक्षमम् ॥ १३ ॥
खतत्रभाव एवास्य खानन्दभरितात्मनः ॥ ५५ ॥
यथा तत्र तथान्यत्र॥१४॥
यत्र स्वाभाविके देहे स्फुटीभूता स्वतन्त्रता । यथा तत्र तथान्यत्र देहे भवति योगिनः ॥ ५६ ॥