________________
शिवसूत्रवार्तिकम् |
[ ३०
स्फुटीभवति युक्तस्य पूर्णाहन्तास्वरूपिणी ॥ १४ ॥
२८
नचैवमप्युदासीनेन भाव्यं योगिनापितु ॥ ५७ ॥
बीजावधानम् ॥ १५ ॥
स्फुरत्तात्मा परा शक्तिर्बीजं विश्वस्य कारणम् । तत्रावधानं चित्तस्य भूयोभूयो निवेशनम् ॥ ५८ ॥ योगिना सावधानेन कर्तव्यमिति शिष्यते ॥ १५ ॥
एवंविधो महायोगी परशक्त्यवधानवान् ॥ ५६ ॥
आसनस्थः सुखं हृदे निमज्जति ॥ १६ ॥
आस्यते स्थीयते यस्मिन्नैकात्म्येनेति चासनम् । शाक्तं बलं यत्तत्रस्थस्तदेवान्तः परामृशन् ॥ ६० ॥ योगी परिहृतध्यानधारणादिपरिश्रमः । खेचर्यादिमहास्रोतोवाहप्रसरकारणे ॥ ६१ ॥ स्वच्छत्वादिगुणैर्युक्ते स्वानन्दभरिते दे | संप्लुतेदपदद्वीपे संपूर्णे संविदवे ॥ ६२ ॥ निरस्तसकलोपायो निमज्जति यथासुखम् । देहादिब्रोडनेनैव तन्मयीभवति स्फुटम् ॥ ६३ ॥ १६ ॥
इत्येवमाणवोपायासादितान्मोहनिर्जयात् । उन्मजच्छुद्ध विद्यात्मशाक्तावेशप्रकर्षतः ।। ६४ ॥