________________
वरदराजविरचितम् । आत्मीकृतपरानन्ददगाढावगाहनात् । प्रस्फुरच्छाम्भवावशवैभवः साधकोत्तमः ॥ ६५ ॥
खमात्रानिर्माणमापादयति ॥ १७ ॥ खस्य संबन्धिनी मात्रा चैतन्यस्योक्तरूपिणः । आश्यानता मितात्मांशो ग्राह्यग्राहकलक्षणः ॥ ६६ ॥ निर्माणापादनं तस्या निर्मितलेन दर्शनम् । संपादयति योगीन्द्रो यथेष्टं स्पष्टमिच्छया ॥ ६७ ॥
एवमीदृशशक्त्युत्थविश्वरूपस्य योगिनः । पुनर्जन्मादिसंबन्धो न कश्चिदिति कथ्यते ॥ ६८ ।।
विद्याऽविनाशे जन्मविनाशः॥१८॥ विद्येति सहजा तस्या अविनाशः सदोदयः । तेनैवाज्ञानसहकृत्तत्तत्कर्मानुषङ्गिणः ॥ ६६ ॥ देहप्राणमनीषादिसमुदायस्य जन्मनः । विनाशो मूलविध्वंसो भवत्यस्येति शिष्यते ॥ ७० ॥
यदा तु शुद्धविद्यायाः स्वरूपं तस्य मजति । तदा तन्मोहनायैव समुत्तिष्ठन्ति शक्तयः ॥ ७१ ॥ कवर्गादिषु माहेश्वर्याद्याः पशुमातरः॥ १६ ॥ कवर्गादिषु तिष्ठन्त्यस्तदधिष्ठातृतां गताः ।