________________
शिवसूत्रवार्तिकम्
[ ३४०
माहेश्वर्यादिकाः प्रोक्तकरन्ध्रचितिमध्यगाः ॥ ७२ ॥ पशून्प्रमातृनाविश्य तत्तत्प्रत्ययभूमिषु । तत्तच्छब्दानुवेधेन मोहनात्पशुमातरः ॥ ७३ ॥ वृवाना निजं रूपं चिदानन्दघनात्मकम् । अतिमानं विवृण्वानाः शरीरादौ जडेऽपिच ॥ ७४ ॥ पशुवत्साधकमपि प्रमत्तं मोहयन्त्यमूः । तस्माद्भाव्यं सदानेन सावधानेन योगिना ॥ ७५ ॥ उक्तं सामान्यतो ज्ञानाधिष्ठानं मातृकेत्यतः । इदं तु प्राप्ततत्वोऽपि प्रमाद्यन्साधकः पुनः ॥ ७६ ॥ पश्वधिष्ठानभूताभिर्मोद्यते मातृभिस्त्विति ॥ १६ ॥
३०
यत एवमतः शुद्धविद्या प्राप्तापि युक्तिभिः ॥ ७७ ॥ बीभिः सा पुनर्मोढ्याद्यथास्य न विनश्यति । तथा सर्वास्ववस्थासु युक्तो भूयादितीर्यते ॥ ७८ ॥
त्रिषु चतुर्थं तैलवदासेच्यम् ॥ २० ॥
त्रिष्विति प्रोक्तरूपेषु जागरादिषु तैलवत् । चतुर्थमिति पूर्वोक्तं शुद्धविद्याप्रधात्मकम् ॥ ७६ ॥ तुर्य धाम सदासेच्यं यथा स्यात्तन्मयं त्रयम् । यथा तैलं क्रमात्स्वीयमाश्रयं व्याप्नुयात्तथा ॥ ८० ॥ आद्यन्तकोट्योः स्फुरता जागरादेः परिस्फुटम् । तुर्यानन्दरसेनाद्रकुर्यान्मध्यदशामपि ॥ ८१ ॥ जाग्रदित्यादिसूत्रेण पूर्वमुद्यमवत्तया ।