________________
वरदराजविरचितम् । शक्तिचक्रानुसन्धानशालिनः परयोगिनः ॥ ८२ ॥ स्वरसप्रसरजाग्रत्स्वप्नसौषुप्तभूमिषु ।। उदीरितः स्वतोनियत्तुर्यप्रसरसंभवः ॥ ८३ ॥ त्रितयेत्यादिसूत्रेण शाम्भवोपायसाधितात् । हठपाकक्रमाजाग्रत्स्वमसौषुप्तसंहृतिः ॥ ८४ ॥ दर्शितानेन सूत्रेण खाणवोपाययुक्तितः । दलकल्पतयास्थायि जाग्रदादिपदत्रयम् ॥ ८५ ॥ सिञ्चत्तुर्यरसेनेति विशेषः समुदीरितः ॥ २० ॥
अत्रोपायं पुनश्चाह तुर्यामृतनिषेचने ॥ ८६ ॥
मग्नः स्वचित्तेन प्रविशेत् ॥२१॥ प्राणायामादिकं त्यक्त्वा स्थूलोपायं विकल्पकम् । अविकल्पकरूपेण स्वचित्तेन स्वसंविदा ॥ ८७ ॥ अन्तर्मुखपरामर्शचमत्काररसात्मना । मनस्तुर्यरसेनात्र स्वदेहादिप्रमातृताम् ॥ ८८ ॥ मजनेन प्रशमयन् प्रविशत्तत्समाविशेत् ॥ २१ ॥
इत्थं परपदाविष्टबुद्धेर्वस्तुस्वभावतः ॥ ८६ ॥ यदा भूयः प्रसरणं योगिनो जायते, तदा ।
प्राणसमाचारे समदर्शनम् ॥ २२ ॥ प्राणस्य प्रस्फुरच्छाक्तसौरभावेशसंस्कृतेः ॥ १० ॥