________________
शिवसूत्रवार्तिकम् । सम्यग्विकसिताशेषग्रन्थ्यवष्टम्भधीबलात् । ईषद्वहिर्मन्दमन्दं चारे प्रसरणे सति ॥ ११ ॥ समं चिन्मुद्धनात्मखात्सर्वदाभेददर्शनम् । संवेदनं भवत्यर्थात्सर्वावस्थासु योगिनः ॥ १२ ॥
तुर्यावष्टम्भतो लभ्यं तुर्यातीतमनामृशन् । पूर्वापरात्मनोः कोट्योः संवेधे तुर्यमात्रके ॥ १३ ॥ आस्ते योगी, तदामुष्य तावन्मात्रेण तुप्यतः ।
मध्येऽवरप्रसवः ॥२३॥ पूर्वस्यामपरस्यां च कोटौ तुर्यनिषेविणः ॥ १४ ॥ अवधानेऽवलिप्तस्य कदाचित्तस्य योगिनः । मध्यायामवरोऽश्रेष्ठः कुत्सितः सर्ग आपतेत् ॥ १५ ॥ व्युत्थानात्मा, ततो योगी सावधानः सदा भवेत् ।
अवरप्रसवे वृत्ते ह्येवं मध्यपदे पुनः ॥ १६ ॥ तुर्यावष्टम्भरसतस्तुर्यातीतं परामशेत् । मात्राखप्रत्ययसंधाने नष्टस्य पुनरुत्थानम् ।२४। मात्राः पदार्थाः रूपाद्यास्तास्वेभिश्चक्षुरादिभिः ॥ १७ ॥ अक्षः स्वप्रत्ययो नाम तत्तत्स्वग्राह्यवेदनम् । संधानं तु समस्तं तदहमित्यनुसंहितिः ॥ ८ ॥ अमुष्मिन्सति नष्टस्य हास्तिस्योकवर्गतः ।