________________
वरदराजविरचितम् । . ३३ तुर्यस्य पुनरुत्थानं भूय उन्मजनं भवेत् ॥ ६६ ॥ तदैक्यसंपत्पूर्णत्वं योगीन्द्रस्येति शिष्यते ॥ २४ ॥
एवमुद्यत्समावेशप्रकर्षः साधकर्षभः ॥ १०० ॥
शिवतुल्यो जायते ॥ २५ ॥ तुर्याभ्यासप्रकर्षण तुर्यातीतात्मकं पदम् । संप्राप्तः साधकः साक्षात्सर्वलोकान्तरात्मना ॥ १०१ ॥ शिवेन चिन्मयस्वच्छस्वच्छदानन्दशालिना । तुल्योऽविगलनादेहकलाया गलने शिवः ॥ १०२ ॥
'अर्जितं दीक्षया दग्धं भविष्यन्ति यमादिभिः । येनेदं साधितं यत्र तद्भक्त्या विनिवर्तते ॥ १०३ ॥ 'अनेकभाविकं कर्म दग्धं बीजमिवाग्निना । भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः ॥ १०४ ॥ इत्युक्तनीत्या प्रारब्धप्राप्तभोगोपभोगभूः ।। कलेवरस्थितिस्तस्य कर्तव्येत्युपदिश्यते ॥ १०५ ॥
शरीरवृत्तिव्रतम् ॥ २६ ॥ एवं पूर्वोक्तया नीत्या शिवतुल्यस्य योगिनः ।। शश्वच्छिवात्मकस्वात्मसपर्यातत्परात्मनः ॥ १०६ ॥ 'अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितम् । भवत्पूजोपयोगाय शरीरमिदमस्तु मे ॥ १०७ ॥