________________
शिवसूत्रवार्तिकम् । इति लोकोत्तरश्रीमदुत्पलपोक्नया दिशा । शिवभक्तिसुधापूर्णे शरीरे वृत्तिरस्य या ॥ १०८ ॥ व्रतमेतदनुष्ठेयं न तुच्छं तस्य धारणम् ।। २६ ॥
एवंविधस्य तस्यास्य या या स्वालापरूपिणी ॥१०६ ॥
कथा जपः ॥ २७॥ 'महामत्रमयं नौमि रूपं ते स्वच्छशीतलम् । अपूर्वामोदसुभगं परामृतरसोल्वणम् ॥ ११० ॥ इति श्रीप्रत्यभिज्ञाकृदैशिकप्रोक्नया दिशा । अकृत्रिमाहमामर्शमयस्वात्मावमर्शिनः ॥ १११ ॥ या या स्वैराभिलापात्मा कथा याथार्थ्यवादिनः । 'भूयोभूयः परे भावे भावना भाव्यते हि या॥११२॥ जपः सोज़ स्वयं नादो मत्रात्मा जप्य ईदृशः ।' 'पद्शतानि दिवारानं सहस्राण्येकविंशतिः ॥ ११३ ॥ जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो जडैः । इत्युक्तनीत्या सा सर्वस्वात्मेशामर्शसंपदः ॥ ११४ ॥ जनिपालनधर्मत्वाजप इत्यभिधीयते । अथेग्विधयोगीन्द्रविषयापि च या कथा ॥ ११५ ॥ जपः सोऽपि जनस्योक्तो जनिपालनयोगतः ।
अथचास्योच्यते चर्या मर्यादानुविधायिनी ॥ ११६ ॥
दानमात्मज्ञानम् ॥ २८॥